________________
११६ योगदृष्टिसमुच्ययः सूत्र - १६०-१६१-१६२-१६३ सकललोक(प्र)सिद्धमेतदिति ॥१६०॥
भोगात्तदिच्छाविरतिः स्कन्धभारापनुत्तये ।
स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः ॥१६१॥ भोगात्सकाशात्, तदिच्छाविरतिर्भोगेच्छाविरतिस्तात्कालिकी ।किमित्याह स्कन्धभारापनुत्तये-स्कन्धभारापनुत्त्यर्थं स्कन्धान्तरसमारोप: वर्तते । कुत इत्याह तत्संस्कारविधानतः । तथाकर्मबन्धेनानिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छाऽनिवृत्तेरिति । उक्ता पञ्चमी दृष्टिः ।
सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तम्[स्कंदपुराणे माहेश्वरखण्डे-कुमारिकाखण्डे च, तथा शार्ङ्गधरपद्धतौ च]
अलौल्यमारोग्यमनिष्ठुरत्वं । गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च । योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥१॥ मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च ।. द्वन्द्वैरधृष्यत्वमभीष्टलाभः जनप्रियत्वं च तथा परं स्यात् ॥२॥ दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥३॥
इत्यादि । इहाप्येतदकृत्रिमं गुणजातम् अत एवारभ्य विज्ञेयम् ॥१६१ ॥ तथा च षष्ठी दृष्टिमभिधातुमाह
कान्तायामेतदन्येषां प्रीतये धारणा परा ।
अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया ॥१६२॥ कान्तायां-दृष्टौ एतदनन्तरोदितं नित्यदर्शनादि अन्येषां प्रीतये भवति, न तु द्वेषाय । तथा धारणा परा-प्रधाना चित्तस्य देशबन्धलक्षणा । यथोक्तम् "देशबन्धश्चित्तस्य धारणा" (३-१ पा.यो.सू.) । अतो-धारणातः अत्रदृष्टौ, नान्यमुद्-नान्यत्र हर्षः, तदा तत्तत्प्रतिभासाऽयोगात् । तथा नित्यंसर्वकालं, मीमांसास्ति-सद्विचारात्मिका । अत एवाह ‘हितोदया' सम्यग्ज्ञानफलत्वेन ॥१६२॥ अमुमेवार्थं स्पष्टयन्नाह
अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मेकाग्रमनास्तथा ॥१६३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org