________________
योगदृष्टिसमुच्ययः सूत्र - १५७-१५८-१५९-१६० ११५ अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् ।
यदत्र तत्परं तत्त्वं, शेषः पुनरुपप्लवः ॥१५७॥ अबाह्यमान्तरं केवलमेकं ज्योतिर्ज्ञानं, अनाबाधममूर्ततया पीडारहितं, अनामयमरोगम् अत एव, यदत्र-लोके, तत्परं तत्त्वं वर्तते, सदा तथाभावात् । शेषः पुनरुपप्लवस्तथास्वरूपेण भावादिति ॥१५७ ॥ . एवं विवेकिनो धीराः, प्रत्याहारपरास्तथा ।
धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः ॥१५८॥ एवमुक्तनीत्या, विवेकिन एते धीरा अचपलाः, 'प्रत्याहारपराः'उक्तलक्षणप्रत्याहारप्रधानाः तथा-तेन प्रकारेण धर्मबाधापरित्यागयत्नवन्तश्चतथान्त:परिशुद्धेः, तत्त्वतः- परमार्थेन, एते हि भिन्नग्रन्थित्वादुत्तमश्रुतप्रधाना इत्येवमालोचयन्ति ॥१५८॥ .
न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् ।
तथा पापसखा लोके, देहिनां भोगविस्तरः ॥१५९॥ न हि-नैव, अलक्ष्मीसखी लक्ष्मीस्तथोभयपरिभोगेन यथानन्दाय आनन्दार्थ धीमतां-बुद्धिमतां तथा पापसखा लोके तदविनाभावेन, देहिनां भोगविस्तरो नानन्दाय, "नानुपहत्य भूतानि भोग: संभवति, भूतोपघाताच्च पापमिति भावना" ॥१५९ ॥ धर्मभोगः सुन्दर इत्यप्याशङ्कापोहायाह
धर्मादपि भवन् भोगः प्रायोऽनय देहिनाम् ।
चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥१६०॥ धर्मादपि भवन् भोगो-देवलोकादौ, प्रायो-बाहुल्येन, अनर्थाय देहिनां तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्मा क्षेपिभोगनिरासार्थ, तस्य प्रमादजीव(बीज)त्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यसिद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह-चन्दनादपि सम्भूतः तथा 'शैत्यप्रकृतेः किमित्याह दहत्येव हुताशनः तथास्वभावत्वात् । प्राय एतदेवं, न दहत्यपि कश्चित् सत्यमन्त्राभिसंस्कृताद् दाहाऽसिद्धेः ।
१. क्षेप्यभो - ता. । २. शीत -भ. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org