________________
. ११४ योगदृष्टिसमुच्ययः सूत्र - १५३-१५४-१५५-१५६
कृतमत्र प्रसङ्गेन, प्रकृतं प्रस्तुमोऽधुना । ....
तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया ॥१५३॥ कृतं पर्याप्तं अत्र-व्यतिकरे प्रसङ्गेन, प्रकृतं प्रस्तुमोऽधुना- साम्प्रतं, तत्पुनः प्रकृतं पञ्चमी तावद्योगदृष्टिः स्थिराख्या किंविशिष्टेत्याह महोदया निवार्णपरमफलेत्यर्थः ॥१५३॥
एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह
स्थिरायां दर्शनं नित्यं, प्रत्याहारवदेव च ।
कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम्॥१५४॥ स्थिरायां दृष्टौ, दर्शनं- बोधलक्षणं, नित्यमप्रतिपाति निरतिचारायाम्, सातिचारायां तु (अ)प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पमनित्यमपि भवति, तथातिचारभावात् रत्नप्रभायामपि(मिव) धूल्यादेरुपद्रवः । प्रत्याहारवदेव च स्वविषयाऽसम्प्रयोगे स्वचित्तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहार (यो.सू.२-५४) तद्वदेतर्दर्शनं, कृत्यं-वन्दनादि, अभ्रान्तं क्रममधिकृत्य । अत एव, अनघमनतिचारत्वात् । एतदेव विशेष्यते, सूक्ष्मबोधसमन्वितंग्रन्थिभेदावेद्यसंवेद्यपदोपपत्तेरिति ॥१५४॥
बालधूलीगृहक्रीडातुल्याऽस्यां भाति धीमताम्।
तमोग्रन्थिविभेदेन, भवचेष्टाखिलैव हि ॥१५५॥ बालधूलीगृहक्रीडातुल्या-प्रकृत्यसुन्दरत्वाऽस्थिरत्वाभ्यां अस्यां-स्थिरायां दृष्टौ, भाति धीमतां पुंसां तमोग्रन्थिविभेदेन हेतुना, भवचेष्टाखिलैव हि चक्रवर्त्यादिचेष्टारूपापि, प्रकृत्यसुन्दरत्वादस्थिरत्वाच्च ॥१५५ ॥
मायामरीचिगन्धर्वनगरस्वप्नसन्निभान् ।
बाह्यान् पश्यति तत्त्वेन, भावान् श्रुतविवेकतः ॥१५६॥ मायामरीचयो-मृगतृष्णिका गन्धर्वनगरं-हरिश्चन्द्रपुरादि स्वप्न: प्रतीत एव, एतत्सन्निभान्-एतदाकारान्, बाह्यान्-देहगृहादीन्, पश्यति तत्त्वेन परमार्थेन, भावान्-पदार्थान् । कुत इत्याह श्रुतविवेकतः-सम्यक्परिणतेन श्रुतज्ञानेन ॥१५६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org