________________
योगदृष्टिसमुच्ययः सूत्र - १४८-१४९-१५०-१५१-१५२ ११३ ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणामसङ्गतः ।
मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ॥ १४८ ॥ ग्रहः सर्वत्र-वस्तुनि तत्त्वेन, परमार्थेन, मुमुक्षूणामसङ्गतोऽयुक्तः, कुत इत्याह मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः, प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम्, किमनेन ग्रहेण तत् ? न किञ्चिदित्यर्थः ॥१४८॥ यत एवम्
तदत्र महतां वर्म, समाश्रित्य विचक्षणैः ॥
वर्तितव्यं यथान्यायं, तदतिक्रमवर्जितैः ॥१४९॥ तदत्र व्यतिकरे, महतां वर्त्म, समाश्रित्याङ्गीकृत्य विचक्षणैः- पण्डितैः, वर्तितव्यं यथान्यायं न्यायसदृशं, तदतिक्रमवर्जितैर्महद्वातिचाररहितैः ॥१४९ ।। एतदेवाह
परपीडेह सूक्ष्मापि, वर्जनीया प्रयत्नतः । . तद्वत्तदुपकारेऽपि, यतितव्यं सदैव हि ॥ १५०॥ - परपीडा परबाधा इहलोके, सूक्ष्माप्यास्तां महतीति, किमित्याह वर्जनीयापरित्यक्तव्या, प्रयत्नतः सूक्ष्माभोगेन तद्वत् प्रयत्नत एव तदुपकारेऽपि - परोपकारेऽपि, यतितव्यमनुष्ठानद्वारेण, सदैव हीति ॥१५०॥ तथा
गुरवो देवता विप्रा, यतयश्च तपोधना ।
पूजनीया महात्मानः, सुप्रयत्नेन चेतसा ॥ १५१॥ गुरवो-मातापितृप्रमुखाः, देवता सामान्येनैव, विप्रा:- द्विजाः, यतयश्च प्रव्रजिताच, तपोधना: तद्वन्तः, पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह सुप्रयत्नेन चेतसा आज्ञाप्रधानेनेत्यर्थः ॥१५१॥ किञ्च
पापवत्स्वपि चात्यन्तं, स्वकर्मनिहतेष्वलम् ।
अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥ १५२॥ पापवत्स्वपि चात्यन्तं, लुब्धकादिषु, स्वकर्मनिहतेष्वलमत्यर्थम्, अनुकम्पैव सत्त्वेषु न्याय्या, न मत्सरो, धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥१५२॥ उपसंहरन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org