________________
. ११२ योगदृष्टिसमुच्ययः सूत्र - १४३-१४४-१४५-१४७ उपसंहरन्नाह
निश्चियोऽतीन्द्रियार्थस्य, योगिज्ञानादृते न च ।
अतोऽप्यत्रान्धकल्पानां, विवादेन न किञ्चन ॥१४३॥ निश्चयोऽतीन्द्रीयार्थस्य-सर्वज्ञादेः योगिज्ञानादृते न च, तत एव तत्सिद्धेः, अतोऽपि कारणाद् अत्र सर्वज्ञाधिकारे, अन्धकल्पानां विशेषतस्तदतत्त्वदर्शिनां, विवादेन न किञ्चन सच्चित्तनाशफलेन ॥१४३॥ ...
न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः। ___ न चातो निश्चयः सम्यगन्यत्राप्याह धीधन : ॥ १४४ ॥
न चानुमानविषयो- न च युक्तिगोचरः एषोऽर्थ:- सर्वज्ञविशेषलक्षण: तत्त्वतो मतः परमार्थेनेष्ट: (र्थेन दृष्टः)। न चातोऽनुमानात् निश्चयः सम्यम्, अन्यत्रापि सामान्यार्थे आह धीधनः स भर्तृहरिः ॥१४४॥ किमाहेत्याह
यलेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥१४५॥ यत्नेनानुमितोऽप्यर्थोऽन्वयाद्यनुसारेण, कुशलैरनुमातृभिरन्वयादिज्ञैः अभियुक्त तरैरन्वयादिज्ञैरेव अन्यथैवोपपाद्यते 'तथाऽसिद्ध्यादिप्रकारेण ।।१४५ ॥ अभ्युच्चयमाह
ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः ।
कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥१४६ ॥ ज्ञायेरन् हेतुवादेनानुमानवादेन पदार्था यद्यतीन्द्रिया: सर्वज्ञादय: कालेनैतावता प्राज्ञैस्तार्किकैः कृतः स्यात्तेषु निश्चयोऽवगम इति ॥१४६ ॥
न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् ॥
मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥१४७॥ न चैतदेवं यद्येन कारणेन तस्माच्छुष्कतर्कग्रहो महानतिरौद्रः मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिर्मोक्तुमिच्छुभिः ॥१४७॥ किञ्च
१. तथासिद्धा-भ. तथाऽसिद्धा - पा. ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org