________________
योगदृष्टिसमुच्ययः सूत्र
२२४-२२५-२२६-२२७-२२८
खद्योतकस्य यत्तेजः तदल्पं च विनाशि च । विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥२२४॥
खद्योतकस्य- सत्त्वविशेषस्य, यत्तेजः प्रकाशात्मकम् तत्किमित्याह अल्पं च विनाशि च स्वरूपेण विपरीतमिदं भानोर्बह्वविनाशि चाऽऽदित्यस्येति इत्येवं भावं, भाव्यमिदमधिकृतपक्षपातादेतत्क्रियादिकं, बुधैस्तत्त्वनीत्येति ॥ २२४ ॥ विशेषमाह -
श्रवणे प्रार्थनीयाः स्युर्न हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः ॥२२५॥ श्रवणे - श्रवणविषये प्रार्थनीयाः स्युर्भवेयुः न हि योग्याः कदाचनशुश्रूषाभावेन स्वतः प्रवृत्तेः । तथा चाह यत्नः कल्याणसत्त्वानां - पुण्यवतां, महारत्ने - चिन्तामण्यादिविषयः स्थितो यतः - तथौचित्ययोगेन, पक्षपातादेरपि जन्मान्तरावाप्तिश्रुतेः ॥२२५॥ अयोग्यदानदोषपरिहारायाह
१. अनर्थपरिहारार्थं
नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु ।
हरिभद्र इदं प्राह, नैतेभ्यो देय आदरात् ॥ २२६ ॥ नैतद्विदस्त्वाचार्याः, अयोग्येभ्योऽन्येभ्यो ददति - यच्छन्ति, एनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम्, तथापि त्वेवमपि व्यवस्थिते हरिभद्रो ग्रन्थकृत् इदं प्राह किमित्याह नैतेभ्य अयोग्येभ्यः, देयः अयं योगदृष्टिसमुच्चयः, आदरात्आदरेण इदं प्राह ॥ २२६ ॥ किमेतदेवमित्याह
Jain Education International
-
"
अवज्ञेह कृताल्पापि, यदनर्थाय जायते । अतस्तत्परिहारार्थं, न पुनर्भावदोषतः ॥ २२७ ॥
अवज्ञेह योगदृष्टिसमुच्चयाख्ये ग्रन्थे, कृताल्पापि स्वरूपेण यद्यस्मात् अनर्थाय जायते महाविषयत्वेन । अतस्तत्परिहारार्थं न पुनर्भावदोषतः - क्षुद्रतया हरिभद्र इदं प्राहेति ॥ २२७ ॥ इत्थं चैतदङ्गीकर्तव्यम् । अत एवाहयोग्येभ्यस्तु प्रयत्नेन, देयोऽयं विधिनाऽन्वितैः । मात्सर्यविरहेणोच्चैः, श्रेयोविघ्नप्रशान्तये ॥२२८॥
-
१३१
ता. ।
For Personal & Private Use Only
www.jainelibrary.org