SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्ययः सूत्र - १३१-१३२-१३३-१३४ १०९ तल्लक्षणाविसंवादान्निराबाधमनामयम्। निष्क्रियं च परं तत्त्वं, यतो जन्माद्ययोगतः ॥१३१॥ तल्लक्षणाऽविसंवादादिति-निवार्णलक्षणाविसंवादात् । एनमेवाह निराबाधं निर्गतमाबाधाभ्यः, अनामयं- अविद्यमानद्रव्यभावरोगम्, निष्क्रियं च कर्तव्याभावान्निबन्धनाभावेन परं तत्त्वमेवम्भूतं यतो- 'यस्मात्, जन्माद्ययोगतो जन्मजरामरणाऽयोगेन ॥१३१॥ ऐदम्पर्यमाह ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ, विवाद उपपद्यते ॥१३२॥ ज्ञाते परिच्छिन्ने, निर्वाणतत्त्वेऽस्मिन्नेवम्भूते असंमोहेन बोधेन, तत्त्वत:परमार्थतः किमित्याह प्रेक्षावतां बुद्धिमतां न तद्भक्तौ-निवार्णतत्त्वसेवायां किमित्याह विवाद उपपद्यते तत् तत्त्वज्ञानभेदाभावात् (तत्तत्त्वज्ञानाभेदात्) अन्यथा प्रेक्षावत्त्वविरोधादिति ॥१३२॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यस्थितम् । आसन्नोऽयमृजुमार्गस्तद्भेदस्तत्कथं भवेत् ॥१३३॥ - सर्वज्ञपूर्वकं चैतदधिकृततत्त्वं निर्वाणाख्यं नियमादेव यत्स्थितमसर्वज्ञस्य निर्वाणानुपपत्तेः, आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षण ऋजुरवक्रो, मार्गःपन्थाः। तद्भेदः-सर्वज्ञभेदो मतभेदलक्षणः तत्तस्मात् कथं भवेन्नैव भवतीति ॥१३३॥ देशनाभेदः कथमित्याशङ्कयाह चित्रा तु देशनैतेषां,स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो, भवव्याधिभिषग्वराः ॥१३४॥ चित्रा तु-नानाप्रकारा पुन: देशना "नित्य आत्मा, अनित्य इति च" इत्यादिरूपा एतेषां-सर्वज्ञानां कपिलसुगतादीनां, स्याद्-भवेत् विनेयानुगुण्यत: तथाविधशिष्यानुगुण्येन, कालान्तरापायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगास्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु तेऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy