________________
- १०८
योगदृष्टिसमुच्ययः सूत्र - १२७-१२८-१२९-१३० प्राकृतेष्विह भावेषु, येषां चेतो निरुत्सुकम् ।
भवभोगविरक्तास्ते, भवातीतार्थयायिनः ॥१२७॥ प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु, येषां चेतो निरुत्सुकं निःसङ्गतासमावेशात्, भवभोगविरक्तास्ते- एवम्भूता जीवा मुक्तकल्पा भवातीतार्थयायिन उच्यन्ते, भवचित्ताऽ (न्ताऽ)संस्पर्शादिति ॥१२७॥
एक एव तु मार्गोऽपि,तेषां शमपरायणः ।
अवस्थाभेदभेदेऽपि, जलधौ तीरमार्गवत् ॥१२८॥ एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीतार्थयायिनां शमपरायणः-शमनिष्ठः, अवस्थाभेदभेदेऽपि-गुणस्थानकभेदापेक्षया जलधौ तीरमार्गवदिति निदर्शनम्। अवस्थाभेदश्चेह तद्रासन्नतादिभेदेन ॥१२८॥ परतत्त्वाभिधित्सयाऽऽह
संसारातीततत्त्वं तु, परं निर्वाणसंज्ञितम्।
तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥१२९॥ संसारातीततत्त्वं त्विति संसारातीतं पुनस्तत्त्वम् किमित्याह परं- प्रधानं निर्वाणसंज्ञा संजाताऽस्येति कृत्वा, रेतद्ध्येकमेव सामान्येन, नियमात् नियमेन शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वतः परमार्थेन ॥१२९ ॥ एतदेवाह
सदाशिवः परं ब्रह्म, सिद्धात्मा तथातेति च ।
शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥१३०॥ सदाशिव इति सर्वकालं शिवो न कदाचिदप्यशिवः, त्रिकालपरिशुद्ध: सर्वाशिवाऽभावात् परं-प्रधानं 'ब्रह्म-'तथा बृहत्त्वबृंहकत्वाभ्यां सद्भावालम्बनत्वात्। सिद्धात्मा-कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः । तथातेति च-आकालं तथाभावात् । यथोक्तम्-"उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ॥१॥ विसंयोगात्मिका चेयं पत्रिदुःखपरिवर्जिता । भूतकोटिः परात्यन्तं भूतार्थफलदेति च ॥२॥" [ ] इत्यादिशब्दैस्तन्निर्वाणमुच्यते, अन्वर्थादन्वर्थेनोक्तनीत्या एकमेव सत् एवमादिभिरिति ॥१३०॥ कथमेकमेवे(वमि) त्याह१. ध्व...ता. । २. ध्व...ता.। ३. तथैकमेव तच्चैकमेव...ता.। ४. त्वतो. ता. । ५. दुःख दुःख 1. संस्कार दुःख 2. परिणामदुःखाख्यैः 3. ता. टि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org