________________
योगदृष्टिसमुच्ययः सूत्र - १२३-१२४-१२५-१२६ १०७ आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च, सदनुष्ठानलक्षणम् ॥१२३॥ आदरो-यत्नातिशय इष्टादौ, करणे प्रीतिरभिष्वङ्गात्मिका । अविघ्नस्तत्करण एवादृष्टसामर्थ्यात्, सम्पदागमः, तत एव शुभभावपुण्यसिद्धेः, जिज्ञासेष्टादिगोचरैव, 'तनिसेवा चेष्टादिज्ञाऽऽसेवा चशब्दात्तदनुग्रहग्रहः । एतत्सदनुष्ठानलक्षणं, अनुबन्धसारत्वादस्य ॥१२३॥ तत्र
बुद्धिपूर्वाणि कर्माणि, सर्वाण्येवेह देहिनाम् ।
संसारफलदान्येव, विपाकविरसत्वतः ॥१२४।। 'बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन इह-लोके, देहिनां-प्राणिनाम् किमित्याह संसारफलदान्येव, अशास्त्रपूर्वकत्वात्, तथा चाह विपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वादिति ॥१२४ ॥ .. ज्ञानपूर्वाणि तान्येव, मुक्त्यङ्गं कुलयोगिनाम् ।
श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥१२५॥ ज्ञानपूर्वाणि-यथोदितज्ञाननिबन्धनानि तान्येव-कर्माणि किमित्याह मुक्त्यङ्गं भवन्ति कुलयोगिनां-वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञापनार्थम्, कुत इत्याह श्रुतशक्तिसमावेशात् हेतोः, अमृतशक्तिकल्पेयं, नैतदभावे मुख्यं कुलयोगित्वम्। अत एवाह 'अनुबन्धफलत्वतः' मुक्त्यङ्गत्वसिद्धेः, तात्त्विकानुबन्धस्यैवम्भूतत्वादिति ॥१२५ ॥
असंमोहसमुत्थानि, त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥१२६॥
असंमोहसमुत्थानि-पुनर्यथोदितासंमोहनिबन्धनानि तु एकान्तपरिशुद्धितःकारणात्, परिपाकवशेन किमित्याह निर्वाणफलदान्याशु-शीघ्रं तान्येव कर्माणि केषामित्याह भवातीतार्थयायिनां-सम्यग् परतत्त्ववेदिनामित्यर्थः ॥१२६॥ एतेषामेव लक्षणमाह
१.२. तज्ज्ञसेवा. ता. । ३. बुद्धिपूर्वाणि-यथोदितबुद्धिनिबन्धनानि. ता.। ४. ध्व...ता.। ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org