________________
· १०६ योगदृष्टिसमुच्ययः सूत्र - ११९-१२०-१२१-१२२
अभिसन्धेस्तथाविधाशयलक्षणात् किमित्याह फलं भिन्न-संसारिदेवस्थानादि अनुष्ठाने समेऽपि हि इष्टादौ । परमः-प्रधानः, अत:-कारणात् स एवाऽभिसन्धिरेव इह-फलसिद्धौ । किंवदित्याह वारीव कृषिकर्मणि इति दृष्टान्तः परमो-लोकरूढ्या ॥११८॥ अभिसन्धिभेदनिबन्धनान्याह
रागादिभिरयं चेह, भिद्यतेऽनेकधा नृणाम् ।
नानाफलोपभोक्तृणां, तथा बुद्धयादिभेदतः ॥११९॥ रागादिभिर्दोषैः अयं चाभिसन्धिः इह-लोके भिद्यतेऽनेकधा नृणां तन्मृदुमध्याधिमात्रभेदेन किंविशिष्टानामित्याह-नानाफलोपभोक्तृणां तथाबुद्ध्यादिभेदतः-वक्ष्यमाणाद् भिद्यतेऽभिसन्धिरिति ॥११९॥ एनमेवाह
. बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । ..
तभेदात्सर्वकर्माणि, भिद्यन्ते सर्वदेहिनाम् ॥१२०॥ . बुद्धिर्वक्ष्यमाणलक्षणा ज्ञानमप्येवमेव, असंमोहश्चैवं, त्रिविधो बोध इष्यते शास्त्रेषु । तद्भेदाद् बुद्ध्यादिभेदात्, सर्वकर्माणीष्टादीनि भिद्यन्ते सर्वदेहिनां, तद्धेतुभेदात्फलभेद इति कृत्वा ॥ १२० ॥ तत्र
इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् ।
सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते ॥१२१॥ इन्द्रियार्थाश्रया बुद्धिस्तीर्थयातृकदर्शने 'तद्गमनबुद्धिवत् । ज्ञानं त्वागमपूर्वकं तीर्थयात्राविधिविज्ञानवत्, सदनुष्ठानवच्चैतज्ज्ञानम् किमित्याह असंमोहोऽभिधीयते बोधराज इति ॥१२१॥ एवमेतेषां लक्षणे व्यवस्थिते सति लोकसिद्धमुदाहरणमाह
रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् ।
इहोदाहरणं साधु, ज्ञेयं बुद्धयादिसिद्धये ॥१२२॥ 'रत्नोपलम्भः' सामान्येनेन्द्रियार्थाश्रया बुद्धिः, 'तज्ज्ञानं' त्वागमपूर्वकं रत्नज्ञानं, 'तत्प्राप्त्यादि' त्वसंमोहः, बोधगर्भवादस्य यथाक्रमम् इह-बुद्ध्यादौ उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात्, अत एवाह ज्ञेयं बुद्ध्यादिसिद्धये बुद्धिज्ञानाऽसंमोहसिद्ध्यर्थमिति ॥१२२ ॥ सदनुष्ठानलक्षणमाह
१. तद्भगमन....भ. पा. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org