________________
योगदृष्टिसमुच्चय-सूत्र : ११३-११४-११५-११६११७-११८ १०५ अनेकधाऽनेकैः प्रकारैः । कैः कानीत्याह स्थित्यैश्वर्यप्रभावाद्यैः आदिशब्दात्सहजरूपादिपरिग्रहः, स्थानानि-विमानादीनि प्रतिशासनं-'शासनं प्रति ब्रह्माण्डत्रैविध्यानुभेदात् ॥११३॥ यस्मादेवम्
तस्मात्तत्साधनोपायो नियमाचित्र एव हि ।
न भिन्ननगराणां स्यादेकं वन कदाचन ॥११४॥ तस्मात्कारणात् तत्साधनोपाय: संसारिदेवस्थानसाधनोपायो नियमाच्चित्र एव हि भवति । इदमेव वस्तु लोकप्रसिद्धोदाहरणद्वारेणाह-न भिन्ननगराणां स्याद् भवेत् एकं वर्त्म कदाचन, तथा तद्भेदानुपपत्तेरिति ॥११४।। तथा___ इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः ।
नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ॥११५॥ इष्टापूर्तानि कर्माणि वक्ष्यमाणलक्षणानि लोके प्राणिगणे चित्राभिसन्धित: कारणात् किमित्याह नानाफलानि-चित्रफलानीति योऽर्थः सर्वाणि द्रष्टव्यानि हेतुभेदात्, कैरित्याह विचक्षणैः-विद्वद्भिरिति ॥११५॥ इष्टापूर्तस्वरूपमाह
ऋत्विग्भिमन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः . अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ॥११६॥
ऋत्विग्भिर्यज्ञाधिकृतैः मन्त्रसंस्कारैः करणभूतैः ‘ब्राह्मणानां समक्षतः' तदन्येषां, अन्तर्वेद्यां हि यद्दत्तं हिरण्यादि, इष्टं तदभिधीयते, विशेषलक्षणयोगात् ॥११६॥
वापीकूपतडागानि, देवतायतनानि च ।
अन्नप्रदानमेतत्तु, पूर्तं तत्त्वविदो विदुः ॥११७॥ वापीकूपतडागानि-लोकप्रसिद्धान्येव, देवतायतनानि च-वसतिकादीनि, तथा अन्नप्रदानं लौकिकमेव, एतत्त्वेवम्भूतं, किमित्याह पूर्त तत्त्वविदो विदु:इति पूर्तपरिभाषया तत्त्वविदो विदन्ति ॥११७॥ आन्तरं हेतुमधिकृत्याह
अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि ।
. परमोऽतः स एवेह वारीव कृषिकर्मणि ॥११८॥ १. शासनं प्रति ब्रह्माण्डवैधातु भे...भा. । शासनं शासनं प्रति ब्रह्माण्डवैधानुभे....ता. । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org