________________
१०४
योगदृष्टिसमुच्चय-सूत्र : १०९-११०-१११-११२-११३ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् ।..
तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥१०९॥ न भेद एव तत्त्वेन-परमार्थेन, सर्वज्ञानां महात्मनां-भावसर्वज्ञानामित्यर्थः तथेष्टानिष्टनामादिभेदेऽपि सति, भाव्यमेतन्महात्मभिः श्रुतमेधाऽसंमोहसारया प्रज्ञया ॥१०९॥ शास्त्रगर्भमेवोपपत्त्यन्तरमाह
चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । .
भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥११०॥ चित्राऽचित्रविभागेन-वक्ष्यमाणलक्षणेन यच्च देवेषु वर्णिता लोकपालमुक्तादिषु भक्ति: सद्योगशास्त्रेषु-'सौवाध्यात्मचिन्ताशास्त्रेषु, ततोऽपि कारणात् एवमिदं स्थितं प्रस्तुतमिति ॥११०॥ अमुमेवार्थं स्पष्टयन्नाह
संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् ।।
तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥१११॥ संसारिषु हि देवेषु-लोकपालादिषु भक्ति:-सेवा, तत्कायगामिनांसंसारिदेवकायगामिनां, तदतीते पुनः संसारातीते तु, तत्त्वे तदतीतार्थयायिनांसंसारातीतमार्गयायिनां योगिनां भक्तिः ॥१११॥ अनयोर्विशेषमाह
चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता ।
अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥११२॥ चित्रा च-नानाप्रकारा च आयेषु-सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसङ्गता- स्वाभीष्टदेवतारागाऽनभीष्टद्वेषसंयुक्ता, मोहगर्भत्वात् । अचित्रा एकाकारा, चरमे तदतीते तु तत्त्वे, एषा भक्तिः, सा च शमसारा शमप्रधाना, अखिलैव हि, तथा संमोहाभावादिति ॥११२ ।। अत्रैव हेतुमाह
संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा ।
स्थित्यैर्ययप्रभावाद्यैः स्थानानि प्रतिशासनम् ॥११३॥ संसारिणां हि देवानां-लोकपालादीनां यस्माच्चित्राण्यनेकाकाराणि
१. शैवा...ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org