________________
योगदृष्टिसमुच्चय-सूत्र : १०५-१०६-१०७-१०८-१०९ १०३ तत्प्रतिपत्तेरसिद्धः ॥१०॥
विशेषस्तु पुनस्तस्य कात्स्न्येनासर्वदर्शिभिः ।
सर्वैर्न ज्ञायते तेन तमापनो न कश्चन ॥१०५॥ विशेषस्तु भेद एव, पुनस्तस्य सर्वज्ञस्य, कात्य॒नासर्वदर्शिभि:प्रमातृभिः सर्वैर्न विज्ञायते, तददर्शनात्, दर्शनेऽपि तज्ज्ञानाऽगतेः, तेन कारणेन तं-सर्वज्ञं आपन:-प्रतिपन्नो, न कश्चनासर्वदर्शी ॥१०५ ॥
तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि। निर्व्याजं तुल्य एवासौ तेनांशे नैव धीमताम् ॥१०६॥
तस्मात्सामान्यतोऽप्येनं सर्वज्ञं, अभ्युपैति य एव हि-कश्चिदसर्वदर्शी, निर्व्याजमौचित्ययोगेन तदुक्तपालनपरः । तुल्य एवासौ तेनांशेन सर्वज्ञप्रतिपत्तिलक्षणेन, धीमतामनुपहतबुद्धीनामित्यर्थः ॥१०६॥
अमुमेवार्थ निदर्शनगर्भमाह
यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः ।
दूरासन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते ॥ १०७ ॥ यथैवैकस्य नृपते:-कस्यचिद्विवक्षितस्य, बहवोऽपि समाश्रिताः-पुमांसो, दूरासन्नादिभेदेऽपि सति तथा नियोगादिभेदेन कृते, तद्भुत्या-विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति ॥१०७॥ दाान्तिकयोजनमाह
सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । ____ सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०८॥
सर्वज्ञतत्त्वाभेदेन-यथोदितनीत्या हेतुभूतेन तथा नृपतिसमाश्रितबहुपुरुषवत् सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः तत्तत्त्वगाः सर्वज्ञतत्त्वगाः, ज्ञेया भिन्नाचारस्थिता अपि तथाधकिारभेदेनेति ॥१०८।। उपसंहरन्नाह
१. नेह - ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org