________________
१०२ योगदृष्टिसमुच्चय-सूत्र : १००-१०१-१०२-१०३-१०४
एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः ।
जानात्यतीन्द्रियानांस्तथा चाह महामतिः ॥१०॥ एतत्प्रधान इत्यागमप्रधानः, सच्छ्राद्धः-प्राज्ञः, शीलवान् परद्रोहविरतिमान्, योगतत्परः- सदा तदभियुक्तः, एवम्भूतः, सन् जानात्यतीन्द्रियानर्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः ॥१००॥ किमित्याह
आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥ आगमेनाप्तवचनेन लक्षणेन, अनुमानेन-लिङ्गाल्लिङ्गिज्ञानरूपेण, योगाभ्यासरसेन च विहितानुष्ठानात्मकेन त्रिधा प्रकल्पयन् प्रज्ञामुक्तक्रमेणैव,
अन्यथा हि प्रवृत्त्यसिद्धेः, किमित्याह-लभते तत्त्वमुत्तमं पापसंमोहनिवृत्त्या श्रुतादिभेदेन ॥१०१॥ अमुमेवार्थमाह
न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः ।
मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥ न तत्त्वतः परमार्थेन, भिन्नमता भिन्नाभिप्रायाः, सर्वज्ञा बहवो यतो यस्मात् । मोहस्तदधिमुक्तीनां सर्वा(र्वज्ञा)तिशयश्राद्धानां, तद्भेदाश्रयणं सर्वज्ञभेदाङ्गीकरणं, ततस्तस्मादिति ॥१०२॥ कथमित्याह
सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि ।
स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥१०३॥ सर्वज्ञो नाम यः कश्चिदर्हदादिः, पारमार्थिक एव हि निरुपचरितः स एक एव सर्वत्र सर्वज्ञत्वेन 'व्यक्तिभेदेऽपि तत्त्वतः' ऋषभादिलक्षणे सति ।।१०३॥
प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् ।
ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥१०४॥ प्रतिपत्तिः ततस्तस्य- सर्वज्ञस्य सामान्येनैव यावतां-तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वकं मुख्य मेवेति न्यायगतिः परा, तमन्तरेण १. अन्यथेह - ता. । २. अधिमुक्तिः=श्रद्धा । ३. मेव च इति-पा. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org