________________
योगदृष्टिसमुच्चय-सूत्र : ९६-९७-९८-९९-१०० १०१ उक्तनीत्या सुलभं क्षितौ पृथिव्याम् । एतत्प्रधानोऽयं कुतर्कः, केनापोद्यते बाध्यते, न केनचित्, स्वनीतिविरोधादित्यर्थः ॥१५॥ इहैव दृष्टान्तमाह
द्विचन्द्रस्वजविज्ञाननिदर्शनबलोत्थितः ।।
निरालम्बनतां सर्वज्ञानानां साधयन् यथा ॥१६॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनमुदाहरणमेतत्सामोपजात: निरालम्बनतामालम्बनशून्यतां, सर्वज्ञानानां- मृगतृष्णिकाजलादिगोचराणाम् अविशेषेण सामान्येन, साधयन् यथा केनापोद्यते ? ॥ ९६ ॥ न चैवं तत्त्वसिद्धिरित्याह
सर्वं सर्वत्र चाप्नोति यदस्मादसमञ्जसम् ।
प्रतीतिबाधितं लोके तदनेन न किञ्चन ॥ ९७॥ सर्वं निरवशेष साध्यमिति प्रक्रमः सर्वत्रच सर्वत्रैव वस्तुनि, प्राप्नोति यदस्मात्कुतर्कात्, असमञ्जसमतिप्रसङ्गेन प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्र'सारं, तदनेन न किञ्चन कुतर्केण ॥ ९७ ॥ इतश्चैतदेवमित्याह
अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् ।
प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥ ९८॥ - अतीन्द्रियार्थसिद्ध्यर्थ-धर्मादिसिद्ध्यर्थमित्यर्थः । यथालोचितकारिणां प्रेक्षावतां, प्रयासः-प्रवृत्त्युत्कर्षः, शुष्कतर्कस्याधिकृतस्य, न चा(साव) तीन्द्रीयोऽर्थो गोचरो विषयः क्वचिदिति ॥ ९८॥
गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः ।
चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ॥ ९९॥ गोचरस्तु-गोचरः पुनः, आगमस्यैवातीन्द्रीयोऽर्थः । कुत इत्याह ततस्तदुपलब्धित:-आगामादतीन्द्रियार्थोपलब्धितः । एतदेवाह- चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात्, लौकिकोऽयमर्थ इति भावनीयम् ॥१९॥ उपसंहरन्नाह
१. एतत्प्रधानो दृष्टान्तमात्रप्रधानः तस्मात् केन कुतार्किकेण स्वनीत्या आत्मीयया व्यवस्थया अपोद्यते निराक्रियते अयं कुतर्क:?न केनचित् स्वनीति....ता. । २. सारत्वात् - पा. । ३. लब्धेः - ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org