________________
१००
योगदृष्टिसमुच्चय-सूत्र : ९२-९३-९४-९५ यत:कुतश्चित्तदर्थक्रियाभावप्रसङ्गात्तन्निबन्धनाविशेषादिति। एवमग्नि: क्लेदयत्यप्सन्निधौ तथाऽऽपो दहन्त्यग्निसन्निधौ तथास्वभावत्वादेव । स्वभाववैचित्र्यान्नात्रापि लोकबाधामन्तरेणाऽ'परो वा स्वभावो, दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात् । तदेवमसञ्जसकारी कुतर्क इत्यैदम्पर्यम् ॥१२॥ अमुमेवार्थं विशेषेणाभिधातुमाह -
अतोऽग्निः कलेदयत्यम्बुसन्निधौ दहतीति च ।
अम्ब्वग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥१३॥ यतो नार्वाग्दृग्गोचरोऽधिकृतस्वभावः "अतोऽस्मात्कारणात्: अग्निः क्लेदयति, अध्यक्षविरोधपरिहारायाह अम्बुसन्निधौ इति । दहति चाऽम्बु, न प्रतीतिबाधेत्याह तत्स्वाभाव्यात्तयोः अग्न्यम्बुनोरिति" उदिते 'सत्यपि परवादिना ॥१३॥ किमित्याह
कोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तितः ।
विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥१४॥ कोशपानादृते-कोशपानं विना, ज्ञानोपायो नास्त्यत्र-स्वभावव्यतिकरे, युक्तित:- शुष्कतर्कयुक्त्यां, कश्चिदपरो दृष्टान्तोऽप्यस्यार्थस्योपोद्वलको विद्यते न वेत्याह विप्रकृष्टोऽप्ययस्कान्तः लोहाकर्ष उपलविशेषः, स्वार्थकृत्लोहाकर्षादिस्वकार्यकरणशीलः, दृश्यते यतः लोके, स हि विप्रकृष्ट एव न सन्निकृष्ट लोहमेव न ताम्रादि, आकर्षत्येव न कर्तयति, तदित्थमस्येवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते ? न केनचिदिति भावनीयम् ॥१४॥ उपसंहरन्नाह
दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ ।
एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥१५॥ दृष्टान्तमानं साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्राऽविशेषेण यदेवं
१. परोबाधाभावो - ता. । २. सति - भ. पा. ता.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org