________________
योगदृष्टिसमुच्ययः सूत्र
११०
१३४-१३५-१३६-१३७-१३८
एवं देशना तु 'तथागुणसम्पादनेनाऽदुष्टैवेत्याह' यस्मादेते महात्मानः' सर्वज्ञाः किमित्याह भवव्याधिभिषग्वराः संसारव्याधिवैद्यप्रधानाः ॥१३४॥
अतः किमित्याह
-
यस्य येन प्रकारेण, बीजाधानादिसम्भवः ।
सानुबन्धो भवत्येते, तथा तस्य जगुस्ततः ॥ १३५ ॥ यस्य - प्राणिनो, येन प्रकारेण नित्यदेशनादिलक्षणेन, बीजाधानादिसम्भवस्तथाभा (भ) वोद्वेगादिभावेन सानुबन्धो भवति तथातथोत्तरगुणवृद्ध्या एते सर्वज्ञाः तथा तेन प्रकारेण तस्य जगुः गीतवन्तः तत इति ॥ १३५ ॥ परिहारान्तरमाह
एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात् तथा चित्राऽवभासते ॥ १३६ ॥ एकापि देशना तन्मुखविनिर्गममधिकृत्य एतेषां सर्वज्ञानां यद्वा श्रोतृविभेदतस्तथाभव्यत्वभेदेन अचिन्त्यपुण्यसामर्थ्यात् परबोधाश्रयोपात्तकर्मविपाकादित्यर्थ:, तथा नित्यादिप्रकारेण चित्राऽवभासत इति ॥ १३६ ॥
न च नैवमपि गुण इत्याह
यथाभव्यं च सर्वोषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ॥१३७॥
यथाभव्यं च भव्यसदृशं च सर्वेषामुपकारोऽपि - गुणोऽपि तत्कृतोदेशनानिष्पन्नः जायते प्रादुर्भवति । अवन्ध्यताऽपि - अनिष्फलतापि एवमुक्तनीत्या अस्याः देशनायाः, सर्वत्र सुस्थितेति ॥ १३९ ॥ प्रकारान्तरमाह
यद्वा तत्तन्नयापेक्षा, तत्तत्कालादियोगतः ।
ऋषिभ्यो देशना चित्रा, तन्मूलैषापि तत्त्वतः ॥ १३८ ॥ यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य तत्तत्कालादियोगात्दुः षमादियोगात् ऋषिभ्यः- कपिलादिभ्य एव देशना चित्रेति । न चेयमपि
१. तथागुणदर्शनेनाऽ इति मुद्रितप्रतौ । तथा तद्गुण.... भ. । तथा तद्गुणसंदर्शनेन ..... ता. । २. परबोधिप्रत्ययोपात्तकर्म.....पा. । ३. सर्वेषां श्रोतॄणामुपका....ता..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org