________________
योगदृष्टिसमुच्चय-सूत्र : ८४-८५-८६-८७ इत्यर्थः ॥ ८३॥ किन्तर्हि
बडिशामिषवत्तुच्छे, कुसुखे दारुणोदये ।
सक्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः ॥ ८४॥ बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् तुच्छे-अल्पे कुसुखेदुष्टभोगजे दारुणोदये-रौद्रविपाके, समयपरिभाषेयम्, सक्ता-गृद्धाः किमित्याह त्यजन्ति सच्चेष्टां-धर्मसाधन(नी)म्, कर्मदोषोऽयमित्याह 'धिगहो दारुणं तमः'-कष्टमज्ञानमिति योऽर्थः ॥८४ ॥ उपसंहरन्नाह
अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत्।
सत्सङ्गागमयोगेन, जेयमेतन्महात्मभिः॥ ८५॥ अवेद्यसंवेद्यपदमुक्तलक्षणं, आन्ध्यं-अन्धभावरूपम् । अत एवाह दुर्गतिपातकृत्-दुर्गतिपातकरणशीलम्, सत्सङ्गागमयोगेन-विशिष्टसङ्गागमसम्बन्धेनेत्यर्थः एकवद्भावः 'पुरुषप्राधान्यख्यापनपरः । जेयमेतदवेद्यसंवेद्यपदं, महात्मभिः-पुम्भिः अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्याः, अयोग्यनियोगाऽसिद्धेरिति ।।८५ ॥ अत एव जयलिङ्गान्याह
जीयमाने च नियमादेतस्मिस्तत्त्वतो नृणाम् ।
निवर्तते स्वतोऽत्यन्तं, कुतर्कविषमग्रहः ॥६॥ .. जीयमाने च नियमादेतस्मिन्नवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये तत्त्वतः-परमार्थेन, नृणां-पुंसां निवर्तते स्वत-आत्मनैवाऽपरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् अत्यन्तं-नितरां सम्यग्ज्ञानयोगात्, आगमप्रामाण्यावगमात् कुतर्कविषमग्रहो-दृष्टा(दृष्टादृष्टा) पायहेतुत्वेन ग्रह इव ग्रहः ॥८६॥
किंविशिष्टोऽयमित्याह
१. उभय-
ता.
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org