________________
योगदृष्टिसमुच्चय-सूत्र : ८१-८२-८३ तत्तस्मै । परितुष्टोऽसौ हृदयेन, चिन्तितं च सतोषं 'अहो धन्यः खल्वयं यस्यैतावन्ति कण्डूयनानि,' पृष्टश्च स 'क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते ?' तेनोक्तम्-लाटदेशादौ, प्रयोजनं किञ्च तवैभिः ? तेनोक्तं कच्छूकण्डूविनोदनम् । पथिक आह-यद्येवं, ततः किमेभिः ? कच्छूमेव ते सप्तरात्रेणापनयामि "कुरू(ष्वो)पयोगं त्रिफलायाः" । स पुनराहकच्छ्वपगमे कण्डूविनोदाभावे किं फलं जीवितस्य; तदलं त्रिफलया, क्वैतान्यवाप्यन्त इत्येतदेव कथय, इति श्लोकगर्भार्थः ॥ अक्षरगमनिका तु यथा 'कण्डूयनेष्वेषां तथैतेषां भवाभिनन्दिनां धीर्न तदिच्छापरिक्षये-न भोगेच्छानिवृत्तौ, तत्त्वानभिज्ञतयैव वयःपरिपाकेऽपि वाजीकरणादरात् । इच्छाग्रहणमिह भोगक्रियोपलक्षणम् ॥८१॥ यतश्चैवमतः
आत्मानं पाशयन्त्येते, सदाऽसच्चेष्टया भृशम्।
पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥ ८२॥ आत्मानं-जीवं पाशयन्ति-गण्डयन्ति एतेऽधिकृतसत्त्वाः सदा-सर्वकालं असच्चेष्टया-प्राणातिपातारम्भरूपया हेतुभूतया भृशमत्यर्थम् । कया पाशयन्तीत्याह-पापधूल्या-ज्ञानावरणीयादिलक्षणया जडा-मन्दा: कार्यमविचार्यैव तत्त्वतः परमार्थेन क्षणिककुसुखसक्ततयाऽऽत्मानं पाशयन्तीति ॥ ८२॥ तथा हि
धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु ।
न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः ॥ ८३॥ धर्मबीजं-धर्मकारणं परं-प्रधानं प्राप्यासाद्य किं तदित्याह मानुष्यंमानुषत्वं । क्वेत्याह कर्मभूमिषु-भरताद्यासु । किमित्याह न सत्कर्मकृषौधर्मबीजाधानादिरूपायां अस्य-धर्मबीजस्य प्रयतन्तेऽल्पमेधसः-अल्पमतय
१. किं वा - पा. । २. 'कण्डूयनेषु' तृणेषु 'एषां' कच्छूकण्डूयकानां धी:' बुद्धिस्तत्त्वानभिज्ञतया न कच्निवर्तने दुष्टानुभवाधिकाराभावात् भोगाङ्गेषु स्त्र्यादिषु तथैतेषां अवेद्यसंवेद्यपदवतां - ता. । ३. धर्मबीज(८३), बडिशामिष...(८४), बोधरोगः (८७), कुतर्केभि...(८८)....इदं श्लोकचतुष्टयं अमितगतिना योगसार-प्राभृते समुद्धृतम् ७/४५-४६ - ५२-५३.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org