________________
योगदृष्टिसमुच्चय-सूत्र : ७७-७८-७९-८०-८१
९५
विवक्षिताऽसत्परिणामसम्बन्धादेव, नियमाद् किमित्याह विषसम्पृक्तका - नवत् इति निदर्शनमात्रम् ॥७७॥ फलत एतदेवाह
एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताहितविवेकान्धाः खिद्यन्ते साम्प्रतेक्षिणः ॥ ७८ ॥
,
एतद्वन्तोऽवेद्य (संवेद्य) पदवन्तः अत
-
एव-कारणात् इह लोके, विपर्यासप्रधाना नराः किमित्याह हिताहितविवेकान्धा: - एतद्रहिता इत्यर्थः, अत एवाह खिद्यन्ते साम्प्रतेक्षिणः सन्त इति ॥ ७८ ॥ तथा च
जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् ।
वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः ॥ ७९ ॥
जन्म - प्रादुर्भावलक्षणं, मृत्युः - प्राणत्यागस्वरूपः, जरा-वयोहान्यात्मिका, व्याधिः- कुष्ठादिलक्षणः, रोगो-विशुचिकाद्यातङ्कः, शोक - इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्ग्रहादिपरिग्रहः, एभिरुपद्रुतं कदर्थितं वीक्षमाणा अपि पश्यन्तोऽपि सन्तः भवं संसारं, नोद्विजन्तेऽस्मादिति प्रक्रमः, अतिमोहतो हेतोरिति ॥ ७९ ॥ तथाह्य ( ? चा ) मीषां किमित्याह
कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाकृष्टाः, कच्छूकण्डूयकादिवत् ॥ ८० ॥ कुकृत्यं-प्राणातिपातारम्भादि कृत्यमाभाति मोहात्, कृत्यं चाहिंसाऽनारम्भादि च अकृत्यवत्सदाऽऽभाति मोहादेव । दुःखे - समारम्भादौ सुखधिया सुखबुद्ध्या आकृष्टा - आकर्षिताः किंवदित्याह कच्छूकण्डूयकादिवत् कच्छू पामा तस्याः कण्डूयकाः- कण्डूयन्त इति कण्डूयकाः; आदिशब्दात्कृमिप्रतुद्यमानाग्निसेवककुष्ठिपरिग्रहः ॥८०॥ अमुमेवार्थं स्पष्टयन्नाह -
यथाकण्डूयनेष्वेषां धीर्न कच्छूनिवर्तने ।
भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥ ८१ ॥ कस्यचित्कण्डूयकस्य कण्डूयनातिरेकात्परिक्षीणनखस्य सिकताक्षितिनिवासात्कथञ्चिदनवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो, दत्तं चानेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org