________________
योगदृष्टिसमुच्चय-सूत्र : ७४-७५-७६-७७ तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । ।
अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥ ७४॥ . तत्पदमिति पदनात्पदमाशयस्थानं, 'साध्ववस्थानात्-' परिच्छेदात्सम्यगवस्थानेन, भिन्नग्रन्थ्यादिलक्षणं भिन्नग्रन्थिदेशविरत(सर्वविरत)रूपम् किमित्याह 'अन्वर्थयोगत:-'अन्वर्थयोगेन, तन्त्रे-सिद्धान्ते, वेद्यसंवेद्यमुच्यतेवेद्यं संवेद्यतेऽनेनेति कृत्वा ॥ ७४॥ 'तस्मादन्यदाह- ...
अवेद्यसंवेद्यपदं, विपरीतमतो मतम् ।
भवाभिनन्दिविषयं,समारोपसमाकुलम् ॥५॥ अवेद्यसंवेद्यपदं विपरीतमतो-वेद्यसंवेद्यपदात् मतमिष्टम्, तथाहि अवेद्यमवेदनीयं वस्तुस्थित्या न तथाभावयोगिसामान्येनात्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः, तत्संवेद्यते अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्ध्योपप्लवसारया मृगतृष्णोदकवज्ज्ञायते यस्मिन्पदे तत्तथाविधम् । अत एवाह भवाभिनन्दिविषयं एतद्, भवाभिनन्दी वक्ष्यमाणलक्षणः, समारोपसमाकुलमिति-मिथ्यात्वदोषतोऽपायगमनाभिमुख (खो न तथा पिङ्गलित ?) मित्यर्थः ॥ ७५ ॥ भवाभिनन्दिलक्षणमाह
क्षुद्रो लोभरतिींनो, मत्सरी भयवान् शठः ।
अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः ॥६॥ क्षुद्रः-कृपणः । लोभरतिञ्चिाशीलः । दीन: सदैवाकल्याणदर्शी । मत्सरो- परकल्याणदुःस्थितः । भयवानित्यभीतः । शठो-मायावी। अज्ञोमूर्खः भवाभिनन्दी- संसारबहुमानी स्यादेवम्भूतो, निष्फलारम्भसङ्गत:सर्वत्राऽतत्त्वाभिनिवेशादिति ॥७६ ॥ यदि नामैवं ततः किमित्याह
इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः ।
तत्सङ्गादेव नियमाद्विषसम्पृक्तकानवत् ॥७७॥ इत्येवं-भवाभिनन्दिपरिणामे सति, अस्याऽसत्परिणामत्वात् असत्परिणामानुविद्धो बोध: सामान्येन न सुन्दरः । कुत इत्याह तत्सङ्गादेव
१. अस्माद्....मो. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org