________________
योगदृष्टिसमुच्चय-सूत्र : ७०-७१-७२-७३ न भवत्येवेति ॥ ७०॥ किमित्येवम्भूतेत्याह
वेद्यसंवेद्यपदतः, संवेगातिशयादिति ।
चरमैव भवत्येषा, पुनर्दुर्गत्ययोगतः ॥ ७१॥ वेद्यसंवेद्यपदतो-वक्ष्यमाणलक्षणात्, · संवेगातिशयादित्यतिशयसंवेगेन चरमैव भवत्येषा-पापवृत्तिः । कुत इत्याह पुनर्दुर्गत्ययोगतः श्रेणिकाद्युदाहरणात्। 'प्रतिपतितसद्दर्शनानामनन्तसंसारिणामनेकधादुर्गतियोग इति यत्किंचिदेतत्,' न, अभिप्रायाऽपरिज्ञानात, क्षायिकसम्यग्दृष्टेरेव नैश्चयिकवेद्यसंवेद्यपदभाव इत्यभिप्रायाद्, व्यावहारिकं अपि तु एतदेव चारु, सत्येतस्मिन् प्रायो दुर्गतावपि मानसदु:खाभावात्, वज्रतन्दुलवदस्य भावपाकाऽयोगात् । अचारु पुनरेकान्तत एव अतोऽन्यदिति' ॥१॥ यदाह
अवेद्यसंवेद्यपदमपदं परमार्थतः ।
पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् ॥ ७२॥ अवेद्यसंवेद्यपदमिति मिथ्यादृष्ट्याशयस्थानम्, अत एवाह 'अपदं परमार्थतः'-यथाबस्थितवस्तुतत्त्वाऽनापादनात् । 'पदंतु'-पदं पुन:, 'वेद्यसंवेद्यपदमेव' वक्ष्यमाणलक्षणमन्वर्थयोगादिति ॥७२॥ तथा चाह
वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् ।
तथाऽप्रवृत्तिबुद्धयापि, स्त्र्याद्यागमविशुद्धया ॥ ७३॥ .. वेद्यं-वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पकज्ञानग्राह्यमिति योऽर्थः, संवेद्यते-क्षयोपशमानुरूपं निश्चयबुद्ध्या विज्ञायते, 'यस्मिन्पदे'आशयस्थाने किंविशिष्टमित्याह अपायादिनिबन्धनं-नरकस्वर्गादिकारणम् स्त्र्यादि तथा-तेन प्रकारेण येन सामान्यानुविद्धं अप्रवृत्तिबुद्ध्यापि तदुपादानत्यागाशयात्मिकया संवेद्यते, स्त्र्यादि वेद्यं आगमविशुद्ध्या-श्रुतापनीतविपर्ययमलया । प्रधानमिदमेव बन्धकारणं प्रेक्षावतामपीति स्त्र्यादिग्रहणम् ॥ ७३॥
१. अवेद्यसंवेद्यपदमित्यर्थः । २. अप्रवृत्तिबुझ्या तन्मात्रग्राहिण्या गृहीतं तथा प्रवृत्तिबुझ्यापि...ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org