________________
योगदृष्टिसमुच्चय-सूत्र : ६७-६८-६९-७०
अवेद्यसंवेद्यपदं, यस्मादासु तथोल्बणम् ।
पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ॥ ६७ ॥ अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्मादासु-मित्राद्यासु चतसृषु
दृष्टिषु तथोल्बणं - तेन निवृत्त्यादिपदप्रकारेण प्रबलमुद्धतमित्यर्थः पक्षिच्छायाजलचरंप्रवृत्त्याभं- पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम् । अतः, परं वेद्यसंवेद्यपदमासु न तात्त्विकमित्यर्थः, ग्रन्थिभेदाऽसिद्धेरित्येतदपि चरमासु चरमयथाप्रवृत्त करणेनैवेत्याचार्याः ॥६७॥ किमेतदेवमित्याह :
९२
अपायशक्तिमालिन्यं, सूक्ष्मबोधवि (नि) बन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे, कदाचिदुपजायते ॥ ६८ ॥ अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वम् किमित्याह सूक्ष्मबोधवि(नि) बन्धकृत्-अपायहेत्वासेवनक्लिष्टबीजभावेन नैतद्वतोऽपायशक्तिमालिन्यवतो अयं - सूक्ष्मो बोधः तत्तस्मात् 'तत्त्वे इति' तत्त्वविषये कदाचिदुपजायते, अवन्ध्यस्थूरबोधबीजभावादित्यर्थः ॥६८॥ यस्मादेवम्अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् । तदाभालम्बनं त्वस्य, तथा पापे प्रवृत्तितः ॥६९॥
अपायदर्शनं-दोषदर्शनं तस्माच्छ्रुतदीपादागमात् न तात्त्विकं न पारमार्थिकमस्येति योगः । तदाभालम्बनं तु परमार्थाभाविषयं पुनर्भवति भ्रान्त्या, कुत इत्याह- तथा पापे प्रवृत्तित: - तथा चि (त्ता) त्राना भोगप्रकारेण पापे प्रवृत्तेरिति ॥६९॥
अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यास - तुल्या वृत्तिः क्वचिद्यदि ॥७०॥ अतोऽन्यदुत्तरास्विति-प्रक्रमादवेद्य (संवेद्य) पदादन्यद्वेद्यसंवेद्यपदम्, उत्तरास्विति स्थिराद्यासु चतसृषु दृष्टिषु । अस्माद् वेद्यसंवेद्यपदात्, पापेपापकर्मणि हिंसादौ, कर्मागसोऽपि हि कर्मापराधादपि किमित्याह तप्तलोहपदन्यासतुल्या वृत्तिः संवेगसारा पापे क्वचिद्यदि भवति, प्रायस्तु
१. करणिन एवे पा. ता. । करणतः एव मो.
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org