________________
योगदृष्टिसमुच्चय-सूत्र : ६३-६४-६५-६६ परोपकारादि अखिलं नृणां'- तत्त्वश्रुतेस्तथाविधाशयभावात्, तदेव विशिष्यते 'गुरुभक्तिसुखोपेतं' कल्याणं, तदाज्ञया तत्करणस्य तत्त्वत: कल्याणत्वात्, अत एवाह 'लोकद्वयहितावहं' अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥ ६३॥ अस्य एव विशेषतः परं फलमाह
गुरुभक्तिप्रभावेन, तीर्थकृद्दर्शनं मतम् ।
समापत्त्यादिभेदेन, निर्वाणैकनिबन्धनम् ॥६४॥ 'गुरुभक्तिप्रभावेन-' गुरुभक्तिसामर्थ्येन तदुपात्तकर्मविपाकत इत्यर्थः, किमित्याह तीर्थकृद्दर्शनं मतं-भगवदर्शनमिष्टम्, कथमित्याह समापत्त्यादिभेदेन 'समापत्तिानतः स्पर्शना' तथा, आदिशब्दात्तनामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः । तदेव विशिष्यते निर्वाणैकनिबन्धनं-अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः ॥ ६४॥ इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाह
सम्यग्घेत्वादिभेदेन, लोके यस्तत्त्वनिर्णयः ।
वेद्यसंवेद्यपदतः, सूक्ष्मबोधः स उच्यते ॥६५॥ सम्यग् अविपरीतेन विधिना,हेत्वादिभेदेनेति हेतुस्वरूपफलभेदेन, लोके विद्वत्समवाये, यस्तत्त्वनिर्णयः परमार्थपरिच्छेदः, कुत इत्याह वेद्यसंवेद्यपदतः वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात्, 'सूक्ष्मबोधः स उच्यते', निपुण इत्यर्थः ॥ ६५॥ इहैव विशेषतः प्रवृत्तिनिमित्तमाह. भवाम्भोधिसमुत्तारात्कर्मवज्रविभेदतः ।
ज्ञेयव्याप्तेश्च कात्स्न्र्येन, सूक्ष्मत्वं नायमत्र तु ॥६६॥ ___ भवाम्भोधिसमुत्ताराद्-भवसमुद्रसमुत्तारणालोकोत्तरप्रवृत्तिहेतुतया तथा कर्मवज्रविभेदतः कर्मवज्रविभेदेन-विभेदस्त्वपुनर्ग्रहणतः, ज्ञेयव्याप्तेश्च कात्स्येनानन्तधर्मात्मकतत्त्वप्रतिपत्त्या, सूक्ष्मत्वं निपुणत्वं बोधस्य, नायमत्र तु-नायं सूक्ष्मो बोधः अत्र-दीप्रायां दृष्टौ, अधस्त्यासु च तत्त्वतो ग्रन्थिभेदाऽसिद्धेरिति ॥ ६६॥ तदाह
१. ता-प्रतौ 'अवन्ध्य' इति पदं नास्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org