SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ . ९० योगदृष्टिसमुच्चय-सूत्र : ५९-६०-६१-६२-६३ अत्र प्रतिबन्धनिबन्धनमाह एक एव सुहृद्धर्मो, मृतमप्यनुयाति यः। . शरीरेण समं नाशं, सर्वमन्यत्तु गच्छति ॥ ५९॥ एक एव सुहृद्धर्मो- नान्यः, तल्लक्षणयोगात् । तदाह 'मृतमप्यनुयाति य' इति, शरीरेण समं नाशं-व्ययं, सर्वमन्यत्तु गच्छति "स्वजनादि' ॥ ५९॥ इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं, बलादेव प्रपद्यते ॥ ६॥ इत्थम्-एवं सदाशयोपेतः सन्, तत्त्वश्रवणतत्पर एतत्प्रधान:, प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते तत्स्वभावत्वात् 'स्वंत (तत) एव न योगोत्थानमस्य ॥ ६०॥ तत्त्वश्रवणगुणमाह - क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते, तद्वत्तत्त्वश्रुतेर्नरः ॥ ६१ ॥ क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंवित्त्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः, तत्त्वश्रुतेरचिन्त्यसामर्थ्यात् (सामर्थ्यत्वात्) महाप्रभावत्वादिति ॥६१॥ अस्यैव भावार्थमाह क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन, समा तत्त्वश्रुतिस्तथा ॥ ६२॥ क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतोऽतत्त्वश्रवणरूपोऽपि, मधुरोदकयोगेन, समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥ ६२॥ अस्या एव गुणमाह अतस्तु नियमादेव, कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं, लोकद्वयहितावहम् ॥१३॥ अतस्त्वित्यत एव तत्त्वश्रुतेः किमित्याह 'नियमादेव कल्याणं' १. स्वजनादीति - ता. । २. तत्स्वाभाव्यात् - भ. पा. ता. । ३. अत:....ता. । ४. क्षाराम्भस्त्यागतो....क्षाराम्भस्तुल्य....इदं श्लोकद्वयं अमितगतिना योगसारप्राभृते समुद्धृतम् ७/५०-५१ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy