________________
योगदृष्टिसमुच्चय-सूत्र : ५४-५५-५६-५७-५८
'शुभभावप्रवृत्तित: ' तद्भावस्यैव शुभत्वात् 'फलं कर्मक्षयाख्यं स्यात्'वचनप्रामाण्येन । एतच्च 'परबोधनिबन्धनं' प्रधानबोधकारणं वचनप्रामाण्यादेव ॥ ५४ ॥ योगेऽक्षेपगुणमाह
शुभयोगसमारम्भे, न क्षेपोऽस्यां कदाचन ।
उपायकौशलं चापि, चारु तद्विषयं भवेत् ॥ ५५ ॥
'शुभयोगसमारम्भे- ' तथाविधध्यानादौ, न क्षेपोऽस्यामधिकृतदृष्टौ सत्यां कदाचन भवति । उपायकौशलं चापि तथाविधदेशाध्यासनादि चारुशोभनं तद्विषयं शुभयोगसमारम्भविषयं भवेदिति ॥ ५५॥
तथाऽस्यामेव दृष्टावभ्युच्चयमाह
परिष्कारगतः प्रायो, विघातोऽपि न विद्यतं । अविघातश्च सावद्यपरिहारान्महोदयः ॥ ५६॥
परिष्कारगतः उपकरणगत इत्यर्थ: प्रायो- बाहुल्येन विघातोऽपि - इच्छाप्रतिबन्धो, न विद्यते - अस्यां सत्यामिति । 'अविघातश्च' किम्भूतो भवतीत्याह सावद्यपरिहारात्-प्रतिषिद्धपरिहारेण महोदयः अभ्युदयनिः श्रेयसहेतुरित्यर्थः ॥ ५६॥ उक्ता बला, साम्प्रतं दीप्रामाह:
८९
प्राणायामवती दीप्रा, न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता, सूक्ष्मबोधविवर्जिता ॥ ५७ ॥
प्राणायामवती चतुर्थाङ्गभावतः भावरेचकादिभावात् 'दीप्रा - ' चतुर्थी दृष्टि:, 'न योगोत्थानवती - 'तथाविधप्रशान्तवाहितालाभेन अलमत्यर्थम् तत्त्वश्रवणसंयुक्ता - शुश्रूषाफलभावेन सूक्ष्मबोधविवर्जिता - निपुणबोधरहितेत्यर्थः ॥ ५७ ॥ भावरेचकादिगुणमाह
www
Jain Education International
प्राणेभ्योऽपि गुरुर्धर्मः, सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं, न धर्मं प्राणसङ्कटे ॥ ५८ ॥ प्राणेभ्योऽपीन्द्रियादिभ्यो गुरुर्धर्मो - महत्तर इत्यर्थः, सत्यामस्यामधिकृतदृष्टौ दीप्रायाम् असंशयम् एतत्कुत इत्याह प्राणांस्त्यजति धर्मार्थं - तथोत्सर्गप्रवृत्त्या, न धर्मं प्राणसङ्कटे त्यजति तथोत्सर्गप्रवृत्त्यैव ॥ ५८ ॥
For Personal & Private Use Only
www.jainelibrary.org