________________
योगदृष्टिसमुच्चय-सूत्र : ५०-५१-५२-५३-५४ __नास्यामधिकृतदृष्टौ, सत्यामसत्तृष्णा- स्थितिनिबन्धनातिरिक्तगोचरा, प्रकृत्यैव स्वभावेनैव प्रवर्तते विशिष्टशुद्धियोगात् । तदभावाच्च असत्तृष्णाभावाच्च, सर्वत्र- व्याप्त्या स्थितमेव सुखासनं, तथापरिभ्रमणाभावेन ॥५०॥ एतदेवाह -
अत्वरापूर्वकं सर्वं, गमनं कृत्यमेव वा ।
प्रणिधानसमायुक्तमपायपरिहारतः ॥ ५१॥ अत्वरापूर्वकमनाकुलमित्यर्थः 'सर्वं सामान्येन किं तदित्याह' 'गमनं' देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं-मनःप्रणिधानपुरःसरं, अपायपरिहारत:-दृष्ट्याद्यपाय(दृष्टाद्यपाय)परिहारेण ॥ ५१॥ उक्तं दर्शनम्। अस्यैव शुश्रूषामाह
कान्तकान्तासमेतस्य, दिव्यगेयश्रुतौ यथा ।
यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ ५२॥ कान्तकान्तासमेतस्य-कमनीयप्रियतमायुक्तस्य, दिव्यगेयश्रुतौ यथाकिंनरादिगेयश्रुतावित्यर्थः यूनो वयःस्थस्य भवति शुश्रूषा श्रोतुमिच्छा तद्गोचरैव तथाऽस्यां दृष्टौ व्यवस्थितस्य सतः तत्त्वगोचरा-तत्त्वविषयैव शुश्रूषा भवति ॥ ५२॥ इयं चैवम्भूतेत्याह -
बोधाम्भःस्रोतसश्चैषा, सिरातुल्या सतां मता ।
अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ ५३॥ बोधाम्भःस्रोतसो-बोधोदकप्रवाहस्य चैषा- शुश्रूषा, सिरातुल्याऽवन्ध्याऽक्षयतबीजकल्पतया सतां मता मुनीनामिष्टा ।अभावेऽस्याः शुश्रूषायाः किमित्याह श्रुतं व्यर्थं श्रमफलम् । किंवदित्याह असिरावनिकूपवत् असिरावनौ पृथिव्यां कूपखननं अतत्खननमेवाऽतत्फलत्वादिति ॥ ५३॥ इहैव व्यतिरेकमाह -
श्रुताभावेऽपि भावेऽस्याः, शुभभावप्रवृत्तितः ।
फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४॥ 'श्रुताभावेऽपि'- श्रवणाभावेऽपि 'भावेऽस्या:-' शुश्रूषायाः, किमित्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org