________________
योगदृष्टिसमुच्चय-सूत्र : ४६-४७-४८-४९-५० 'कृत्ये' ध्यानादौ 'अधिके-'स्वभूमिकापेक्षया 'अधिकगत' आचार्यादिवर्तिनि 'जिज्ञासा'ऽस्य कथमेतदेवमिति 'लालसान्विता' अभिलाषातिरेकयुक्ता। 'तुल्ये' कृत्ये वन्दनादौ,'निजे' त्वात्मीय एव 'विकले -' कायोत्सर्गकरणादिना 'सन्त्रासो' भवत्यात्मनि 'हा! विराधकोऽहमि' ति, 'द्वेषवर्जितो'ऽधिकेऽधिकृतदृष्टिसामर्थ्यादिति ॥४६॥
दुःखरूपो भव: सर्व उच्छेदोऽस्य कुतः कथम् ।
चित्रा सतां प्रवृत्तिश्च, साऽशेषा ज्ञायते कथम् ॥ ४७॥ 'दुःखरूपो भवः सर्वो' जन्मजरादिरूपत्वात् 'उच्छेदोऽस्य' भवस्य, 'कुतो' हेतोः क्षान्त्यादेः 'कथं' केन प्रकारेण । चित्रा ‘सतां' मुनीनां, प्रवृत्तिश्चैत्यकर्मादिना प्रकारेण, साऽशेषा ज्ञायते कथं तदन्यापोहतः ॥४७॥ यत :
नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः।
शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४८॥ 'नास्माकं महती प्रज्ञा' संवादिनी, स्वप्रज्ञाविकल्पिते विसंवाददर्शनात्, तथा 'सुमहान् शास्त्रविस्तरः' तत्तत्प्रवृत्तिहेतुत्वात् । एवं 'शिष्टाः' साधुजनसम्मताः 'प्रमाणमिह' व्यतिकरे (तद्)तस्मादित्येवमस्यां दृष्टौ 'मन्यते सदा' यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थ : ॥४८॥ उक्ता तारा । अधुना बलोच्यते, तदत्राह -
सुखासनसमायुक्तं, बलायां दर्शनं दृढम् । . परा च तत्त्वशुश्रूषा, न क्षेपो योगगोचरः ॥४९॥
सुखासनसमायुक्तमिति स्थिरसुखासनवत् ‘बलायां' दृष्टौ 'दर्शन' प्रागुक्तं 'दृढं' काष्ठाग्निकणोपममिति कृत्वा, 'परा च तत्त्वशुश्रूषा' जिज्ञासासम्भवेति । 'न क्षेपो योगगोचरः' तदनुद्वेगज इति कृत्वा ॥ ४९ ॥ अमुमेवार्थमाह
नास्यां सत्यामसत्तृष्णा, प्रकृत्यैव प्रवर्तते। तदभावाच्च सर्वत्र, स्थितमेव सुखासनम् ॥५०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org