SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : ४२-४३-४४-४५-४६ तत्प्रतिपत्त्यानुगुण्यमिति ॥ ४१ ॥ अस्यां दृष्टौ यदन्यद्गुणजातं भवति तदाह भवत्यस्यां तथाऽच्छिन्ना, प्रीतिर्योगकथास्त्वलम्। शुद्धयोगेषु नियमादू बहुमानश्च योगिषु ॥४२॥ भवत्यस्यां दृष्टौ 'तथा-' तेन प्रकारेण 'अच्छिन्ना'- भावप्रतिबन्धसारतया प्रीतिर्योगकथास्वलमत्यर्थं तथा शुद्धयोगेषु(फलप्रधानेषु)अवकल्कप्रधानेषु 'नियमाद्' नियमेन बहुमानश्च योगिषु भवति ॥ ४२ ॥ न केवलमयम्, किं च यथाशक्त्युपचारश्च, योगवृद्धिफलप्रदः । योगिनां नियमादेव, तदनुग्रहधीयुतः ॥ ४३॥ "यथाशक्ति' शक्तयौचित्येन किमित्याह 'उपचारश्च' ग्रासादिसम्पादनेन यथोक्तयोगिष्विति प्रक्रमः । स एव विशिष्यते 'योगवृद्धिफलप्रदः' तत्सम्य परिणामेन, योगिनां नियमादेव' नान्यथा तद्विघातहेतुरिति, तदनुग्रहधीयुतः' उपचारसम्पादकानुग्रहधीयुत इत्यर्थः ॥४३॥ ,अयमेव विशिष्यते लाभान्तरफलश्चास्य, श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च, शिष्टसम्मतता तथा ॥४४॥ लाभान्तरफलश्चास्योपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । 'हितोदयः' पूर्ववत्, क्षुद्रोपद्रवहानिश्च भवति, अत एव व्याध्यादिनाशः शिष्टसम्मतता तथा, अत एवास्यातिसुन्दरो बहुमानः ॥४४॥ तथा भयं नातीव भवजं, कृत्यहानिर्न चोचिते । तथाऽनाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥४५॥ 'भयं नातीव भवजं' तथाऽशुभाऽप्रवृत्तेः, ‘कृत्यहानिर्न चोचिते' सर्वस्मिन्नेव धर्मादरात्, तथानाभोगतोऽप्युच्चैरत्यर्थं, न चाप्यनुचितक्रिया सर्वत्रैव ॥४५॥ एवं कृत्येऽधिकेऽधिकगते, जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले, सन्त्रासो द्वेषवर्जितः ॥४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy