SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : ३८-३९-४०-४१ तदाभिधातुमाह यथाप्रवृत्तकरणे, चरमेऽल्पमलत्वतः। आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥३८॥ 'यथाप्रवृत्तकरणे'- प्राग्व्यावर्णितस्वरूपे 'चरमे' पर्यन्तवर्तिनि अल्पमलत्वतः कारणात् 'आसन्नग्रंथिभेदस्य' सतः, समस्तमनन्तरोदितं 'जायते ह्यद' एतदिति ॥३८॥ अथवा चरमं यथाप्रवृत्तमिदमपूर्वमेवेत्याह अपूर्वासन्नभावेन, व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ ३९॥ अपूर्वासन्नभावेन, हेतुना तथा 'व्यभिचारवियोगतः' कारणात् तत्त्वत: परमार्थेन 'अपूर्वमेवेदं' चरमं यथाप्रवृत्तम् इति योगविदो विदुः' एवं योगविदो जानत इति भावः ॥३९॥ इहैव गुणस्थानयोजनमाह प्रथमं यदू गुणस्थानं, सामान्येनोपवर्णितम् ।। अस्यां तु तदवस्थायां, मुख्यमन्वर्थयोगतः ॥४०॥ प्रथममाद्यं यद् गुणस्थानं मिथ्यादृष्ट्याख्यं, सामान्येनोपवर्णितमागमे मिच्छद्दिट्ठी सासायणाइ (सासायणे, य) इति वचनात्, अस्यां तु तदवस्थायामित्यस्यामेव, मुख्यं निरुपचरितम् । कुत इत्याह अन्वर्थयोगतः एवं गुणभावेन गुणस्थानोपपत्तेरिति ॥ उक्ता मित्रा ॥४०॥ .. अधुना तारोच्यते। तदत्राह - तारायां तु मनाक्स्पष्टं, नियमश्च तथाविधः । अनुद्वेगो हिंतारम्भे, जिज्ञासा तत्त्वगोचरा ॥ ४१॥ "तारायां' पुनदृष्टौ किमित्याह 'मनाक्स्पष्टं' दर्शनमिति वर्तते 'मित्रायां दर्शनं मन्दं' (श्लो-२१) इत्यतः, नियमश्च तथाविधः शौचादिरिच्छादिरूप एव 'शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः' (यो.सू.-२, ३२) इति वचनात् । तदत्र द्वितीययोगात्प्रतिपत्तिरपि, मित्रायां त्वेतदभाव एव, तथाविधक्षयोपशमाभावात् । तथानुद्वेगो हितारम्भे पारलौकिकेऽखेदसहित :, अत एव तत्सिद्धिः । तथा 'जिज्ञासा तत्त्वगोचरा' अद्वेषत एव । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy