________________
योगदृष्टिसमुच्चय-सूत्र : ३४-३५-३६-३७
तद्वन्दनादिक्रिया तत्फलं चाश्रित्यैष एवमेव द्रव्यत इति ॥ ३४ ॥ एतदपि यन्निमित्तं तदभिधातुमाह -
८४
एतच्च सत्प्रणामादिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाल्पता ॥ ३५ ॥ एतच्चावञ्चकत्रयं, 'सत्प्रणामादिनिमित्तं'- साधुवन्दनादिनिमित्तमित्यर्थः । 'समये स्थितं'- सिद्धांते प्रतिष्ठितम् । 'अस्य' सत्प्रणामादेः हेतुश्च परमः क इत्याह तथाभावमलाल्पता कर्मसम्बन्धयोग्यताल्पता रत्नादिमलापगमे ज्योत्स्नादिप्रवृत्तिवदिति योगाचार्याः ॥ ३५ ॥
प्रकृतवस्त्वपोवलनाय व्यतिरेकसारमाह
नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया । किं सम्यग् रूपमादत्ते कदाचिन्मिन्दलोचनः ॥ ३६ ॥ नास्मिन् भावमले 'घने- ' प्रबले यतः 'सत्सु - ' साधुषु 'तत्प्रतीति: 'सत्प्रतीतिर्भवति । किंविशिष्टेत्याह 'महोदया - अभ्युदयादिसाधकत्वेन । प्रतिवस्तूपमयाऽमुमेवार्थमाह 'किं सम्यग् रूपमादत्ते ?" लक्षणव्यञ्जनादिकात्स्र्त्स्न्येन कदाचिन्मन्दलोचन: ' इन्द्रियदोषान्नादत्त एवेत्यर्थः ॥ ३६ ॥ अधुनान्वयसारमधिकृतवस्तुसमर्थनायैवाह -
'अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते ।
चेष्टते चेष्टसिद्धार्थं, वृ( धृ )त्यैवायं तथा हिते ॥ ३७ ॥ 'अल्पव्याधिः '- क्षीणप्रायरोगः यथा लोके कश्चित्तद्विकारै:कण्ड्वादिभिः 'न बाध्यते' व्याधेरल्पत्वेन न बाध्यते । किं चेत्याह 'चेष्टते च' राजसेवादौ, 'इष्टसिद्ध्यर्थं ' कुटुम्बादिपालनाय, एष दृष्टान्तोऽयमर्थोपनय इत्याह, व (ध) त्यैव धर्मयोनिरूपया एतच्च वृत्ति:' ( धृतिः) श्रद्धा सुखा विविदिषा विज्ञप्तिरिति धर्मयोनयः इति वचनात् । तदनया हेतुभूतया, अयं योगी तथाल्पव्याधिपुरुषवत्स्थूराऽकार्यप्रवृत्तिनिरोधेन, 'हिते' - हितविषये दानादौ चेष्टत इति ॥३७॥ एतदनन्तरोदितमखिलमेव यदोपजायते
१. द्रष्टव्यः.....ता. । २. शा. वा. समु. स्त. ९ श्लो. ७ वृत्तौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org