________________
योगदृष्टिसमुच्चय-सूत्र : ३१-३२-३३-३४ 'चरमे पुद्गलावर्ते' यथोदितलक्षणे 'क्षयश्चास्योपपद्यते' भावमलस्य, जीवानां लक्षणं 'तत्र'-चरमे पुद्गलावर्ते, यत एतदुदाहृतं वक्ष्यमाणमिति ॥३१॥ यदुदाहृतं तदभिधातुमाह
दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च ।
औचित्यात्सेवनं चैव, सर्वत्रैवाविशेषतः ॥३२॥ 'दुःखितेषु' शारीरादिना दुःखेन, 'दयात्यन्तं 'सानुशयत्वमित्यर्थः, अद्वेषोऽमत्सर: केष्वित्याह 'गुणवत्सु च' विद्यादिगुणयुक्तेषु, 'औचित्यात्सेवनं चैव' शास्त्रानुसारेण, 'सर्वत्रैव' दीनादौ, 'अविशेषतः' सामान्येन ॥३२॥ यतश्चैवमत:
एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः ।
शुभो निमित्तसंयोगो, जायतेऽवञ्चकोदयात् ॥३३॥ ‘एवंविधस्य जीवस्य' अनन्तरोदितलक्षणयोगिनो, 'भद्रमूर्तेः' प्रियदर्शनस्य, 'महात्मनः' सद्वीर्ययोगेन किमित्याह 'शुभः' प्रशस्तः क इत्याह 'निमित्तसंयोग:'- सद्योगादिसंयोगः,सद्योगादिनामेव निःश्रेयससाधननिमित्तत्वात् 'जायते' । कुत इत्याह 'अवञ्चकोदयात्' वक्ष्यमाणसमाधिविशेषोदयादित्यर्थः ॥३३॥ अवञ्चकोदयाद् इत्युक्तं, अत एतत्स्वरूपप्रतिपिपादयिषयाह -
योगक्रियाफलाख्यं यत् श्रूयतेऽवञ्चकत्रयम् ।
साधूनाश्रित्य परममिषुलक्ष्यप्रि(क्रि)योपमम् ॥३४॥ योगक्रियाफलाख्यं यस्मात् श्रूयतेऽवञ्चकत्रयमागमे 'योगावश्चक: क्रियावश्चक: फलावञ्चकः' इति वचनात् । अव्यक्तसमाधिरेवैष, तदधिकारे पाठात्, चित्रक्षयोपशमतस्तथाविध आशयविशेष इति । एतच्च 'साधूनाश्रित्य' साधवो मुनयः, 'परं-(परमं)अवञ्चकत्रयं' स्वरूपतस्त्वेतद् 'इषुलक्ष्यक्रियोपमं'. शरस्य लक्ष्यक्रिया तत्प्रधानतया तदविसंवादिन्येव, अन्यथा लक्ष्यक्रियात्वायोगात् । एवं साधूनाश्रित्य योगावञ्चकस्तद्योगाविसंवादी । एवं
१. सानुबन्धेत्यर्थः.....म. पा. मो.ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org