SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : २८-२९-३०-३१ आदिशब्दार्थमाह लेखना पूजना दानं, श्रवणं वाचनोद्ग्रहः । . प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥२८॥ 'लेखना'-सत्पुस्तकेषु, 'पूजना'-पुष्पवस्त्रादिभिः, 'दानं'-पुस्तकादेः, 'श्रवणं'-व्याख्यानस्य, 'वाचना'-स्वयमेवास्य, 'उद्ग्रह:'-विधिग्रहणं अस्यैव, 'प्रकाशना'-गृहीतस्य भव्येषु, 'अथ स्वाध्यायो' वाचनादिः अस्यैव, 'चिन्तना' ग्रन्थार्थतः अस्यैव, ‘भावनेति च' एतद्गोचरैव योगबीजमिति योगः ॥२८॥ तथा बीजश्रुतौ च संवेगात् प्रतिपत्तिः स्थिराशया । तदुपादेयभावश्च, परिशुद्धो महोदयः ॥ २९ ॥ 'बीजश्रुतौ च यथोक्तगोचरायाम्, 'संवेगात्' श्रद्धाविशेषात् प्रतिपत्ति:'एवमेतत्'-इत्येवंरूपा, 'स्थिराशया'-तथाविधचित्तप्रबन्धविस्रोतसिकाऽभावेन । 'तदुपादेयभावश्च'-बीजश्रुत्युपादेयभावश्च, 'परिशुद्धः'-फलौत्सुक्याभावेन, 'महोदयः' अत एवानुष्वङ्गिकाभ्युदयतो निःश्रेयससाधनादिति ॥२९॥ एवमेतद्योगबीजोपादानं यथा जायते तथाभिधातुमाह एतद्भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्यं न यत्क्वचित् ॥३०॥ एतदनन्तरोदितं योगबीजोपादानं, 'भावमले-' तत्तत्पुद्गलादिसम्बन्धयोग्यतालक्षणे, क्षीणे सति, न स्तोके किं तु 'प्रभूते' (प्रभूत) पुद्गलपरावर्ताक्षेपके 'जायते-' प्रादुर्भवति, 'नृणां'-पुंसाम् । प्राय एतेऽधिकारिण इति नृग्रहणं, अन्यथा चातुर्गतिकमेतत्, प्रभूत एव क्षीणे नाल्प इत्याह 'करोत्यव्यक्तचैतन्यः'- हिताहितविवेकशून्यो बालः, 'न महत्कार्य' अर्थानुष्ठानादि, "यत्क्वचित्' किंतु व्यक्तचैतन्य एव करोति ॥३०॥ यदाऽस्य क्षयोऽभिमतः तदोपदर्शयन्नाह चरमे पुद्गलावर्ते, क्षयश्चास्योपपद्यते । जीवानां लक्षणं तत्र, यत एतदुदाहृतम् ॥३१॥ १. नत्वादि....ता. । २. यत्कार्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy