________________
योगदृष्टिसमुच्चय-सूत्र : २५-२६-२७ रिणी समासेने" त्यादि । अतः संशुद्धं ह्येतदीदृशमेतदिति जिनकुशलचित्तादि । एतच्च तथाविधकालादिभावेन तत्तत्स्वभावतया फलपाकारम्भसदृशमिति ॥२५॥ न चेदमेव केवलं योगबीजमिति तदन्तराभिधित्सयाह
आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु ।
वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥२६॥ 'आचार्यादिष्वपि' आचार्योपाध्यायतपस्व्यादिष्वपि, एतदेव कुशलचित्तादि, विशुद्धं'-संशुद्धमेवेत्यर्थः, किंविशिष्टेषु ? इति आह 'भावयोगिषु-' न द्रव्याचार्यादिष्वधर्मजलक्षणेषु, कूटरूपे खल्वकूटबुद्धेरप्यसुन्दरत्वात् । नैतदेव केवलं योगबीजम्, किं तर्हि ? 'वैयावृत्त्यं च'-व्यावृत्तभावलक्षणमाहारादिना, 'विधिवत्' सूत्रोक्तविधियुक्तं पुरुषाद्यपेक्षयेत्यर्थः । यदाह-'पुरिसंतस्सुवयारं, अवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काऊं निरासंसो ॥ उ. प. २३७॥" इत्यादि ॥ अत एवाह शुद्धाशयविशेषत:-शुद्धचित्तप्रबन्धविशेषेण, अयं च तथाविधकालादिभावेनेत्युक्तप्रायम् ॥२६॥ . . बीजान्तरमाह
भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् ।।
तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥२७॥ ... 'भवोद्वेगश्च-' संसारोद्वेगश्च जन्मादिरूपतया भवत्यस्य, 'सहजो-' नेष्टवियोगादिनिमित्तः, तस्यार्तध्यानरूपत्वात् । उक्तं च-"प्रत्युत्पन्नात्तु दुःखानिर्वेदो द्वेष ईदृशः । न वैराग्यमित्यादि" योगबीजमिति वर्तते । तथा 'द्रव्याभिग्रहपालनं औषधादिसमादानमधिकृत्य, भावाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याभिन्नग्रन्थेरसम्भवाद् द्रव्याभिग्रहग्रहणम् । तथा सिद्धान्तमाश्रित्याएं न तु 'कामादिशास्त्राणि, किमित्याह 'विधिना'-न्यायात्तधनसत्प्रयोगादिलक्षणेन किमित्याह-'लेखनादि च' योगबीजमनुत्तममिति ॥२७॥
१. काणादादि...मो. ।
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org