________________
योगदृष्टिसमुच्चय-सूत्र : १४-२५ .
पश्चाच्च क्लिष्टाशयविशुद्धतराशययोगात् 'इति तद्विदः' इत्येवं योगविदोऽभिदधति ॥२४॥ एवमस्य समयमभिधायैतदभिधित्सया त्वाह
उपादेयधियात्यन्तं, संज्ञाविष्कम्भणान्वितम् ।
फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥२५॥ 'उपादेयधिया' उपादेयबुद्ध्या 'अत्यन्तं-' सर्वान्यापोहेन तथापरिपाकात्सम्यग्ज्ञानपूर्वरूपत्वेन 'संज्ञाविष्कम्भणान्वितं-' क्षयोपशमवैचित्र्यादाहारादिसंज्ञोदयाभावयुक्तम् । संज्ञा आहारादिभेदेन दश । तथा चार्षम्"कइविहा णं भन्ते । सन्ना पन्नत्ता? । गोयमा !, दसविहा-'आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना" इति । एतत्सम्प्रयुक्ताशयानुष्ठानं सुन्दरमप्यभ्युदयाय, न निःश्रेयसावाप्तये, परिशुद्ध्यभावाद्भवभोगनिःस्पृहाशयप्रभवमेतदिति योगिनः, 'फलाभिसन्धिरहितं' भवान्तर्गतफलाभिसन्ध्यभावेन । आहअसम्भव्येव संज्ञाविष्कम्भणे पूर्वोदितफलाभिसन्धिः । सत्यमेतत् तद्भवान्तर्गतफलमधिकृत्य, इह तु तदन्यभवान्तर्गतमपि' 'सामानिकादिलक्षणफलमधिकृत्य गृह्यते, तदभिसन्धेरसुन्दरत्वात्तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनं, स्वप्रतिबन्धसारं तु तत्स्थानस्थितिकार्येव तथास्वभावत्वात्, गौतमभगवद्बहुमानवत्, एवम्भूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिबीजात्कालेनापि शाल्यड्कुरः । एतत्त्वभित्रग्रन्थेरपि तदैवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वादप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम् । यथाहुर्योगाचार्या:"योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः१ तच्छक्त्यतिशयशैथिल्यकारी२ प्रकृतेः प्रथमविप्रियेक्षा३ तदाकूतकारिणी (समुज्जासना; आगमोपायनं) मुज्जासमागमोपायनचेतस्तदुचित चिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात्तद्भेदकारि भवचारकपलायनकालघण्टा तदपसारका
१. तंजहा आहारसन्ना....ता. । २. सर्वाग्रेतनमपि फलमधिकृत्य - भ. । ३. तीर्थकृत्तुल्यत्वादि - ता. टि. । ४. चित्ता....पा. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org