SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : २२-२३-२४ ___७९ 'करोति' तत्त्वकरणेन 'योगबीजानां'-वक्ष्यमाणलक्षणानां 'उपादानं'ग्रहणम्, 'इह स्थितो' मित्रायां दृष्टौ मैत्रो 'योगीत्यर्थः । किंविशिष्टानां योगबीजानामित्याह-अवन्ध्यमोक्षहेतूनां इति, न हि योगबीजं न योगफलं नाम, योगश्च मोक्षफल इति । 'इति योगविदो'-विशिष्टा एव योगाचार्याः, 'विदु'रिति जानते ॥२२॥ साम्प्रतं योगबीजान्युपन्यस्यन्नाह जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ॥२३॥ 'जिनेषु' भगवदर्हत्सु 'कुशलं चित्तं'-द्वेषाद्यभावेन प्रीत्यादिमत्, अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव च'-जिननमस्कार एव च तथामनोयोगप्रेरित इति, अनेन तु वाग्योगवृत्तिम् । 'प्रणामादि च' पञ्चाङ्गादिलक्षणं; आदिशब्दान्मण्डलादिग्रहः 'संशुद्धं' इत्यसंशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्,तस्य च योगबीजत्वानुपपत्तेः । एतत्सर्वमेव सामस्त्यप्रत्येकभावाभ्यां 'योगबीजं'-मोक्षयोजकानुष्ठान कारणम् 'अनुत्तमम्' इति सर्वप्रधानं विषयप्राधान्यादिति ॥२३॥ यदैतद्भवति तत्समयम भिधातुमाह__ चरमे पुद्गलावर्ते, तथाभव्यत्वपाकतः । _ संशुद्धमेतन्नियमानान्यदापीति तद्विदः ॥२४॥ 'चरमे पुद्गलावर्ते' इति पुद्गलानामावर्तास्तथातथा तत्तद्ग्रहणसन्त्यागाभ्यामिति पुद्गलावर्ताः, "एते ह्यनादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित्कियन्तोऽपि" इति वचनप्रामाण्याच्चरमपदे चरमावर्ताभिधानात् । अत्रापि कारणमाह 'तथाभव्यत्वपाकतः' इति तथाभव्यत्वपाकेन ततस्तस्मान्मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुर्यसिद्धेः संशुद्धमेतज्जिनेषु कुशलादिचित्तम् 'नियमाद्' नियमेन तथाभव्यत्व पाकभावेन कर्मणा तथा, अन्यदा संशुद्धवदसंशुद्धानुपपत्तेः, अत एवाह 'नान्यदापि' नान्यस्मिन्नपि काले प्राक् १. योगीति योऽर्थः - भ.मो.ता. । २. करणं....मो. । ३. संन्यासाभ्याम्....मो. । ४. ततस्तथामि....ता. । ५. पाके भावकर्मण्यतया अन्य....ता. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy