________________
७८
योगदृष्टिसमुच्चय-सूत्र : १९-२०-२१-२२ विक्रियानुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमितिः । अतः 'प्रतिपातेन नेतरा' इति स्थितम् ॥१९॥ इहापि' - .
प्रयाणभङ्गाभावेन, निशि स्वापसमः पुनः । . विघातो दिव्यभवतश्चरणस्योपजायते ॥२०॥ 'प्रयाणभङ्गाऽभावेन' इति कन्यकुब्जादिगमनेऽनवरतप्रयाणकगमनेनापि 'निशि'-रात्रौ 'स्वापसमः पुनः'-स्वापतुल्यस्तु. किमित्याह 'विघात:'प्रतिबन्धः "दिव्यभवत:'-देवजन्मनः सकाशात् 'चरणस्य'-चारित्रस्य 'उपजायते' तथाविधौदयिकभावयोगेन, तदभावे तु पुनस्तत्रैव प्रवृत्तिः, स्वापविगमेऽनवरतप्रयाणे च प्रवृत्तकन्यकुब्जगन्तृगमनप्रवृत्तिवत् ॥२०॥ इदानीं प्रतिदृष्टि साकल्येनाङ्गयोजनामुपदर्शयन्नाह -
मित्रायां दर्शनं मन्दं, यम इच्छादिकस्तथा ।
अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥२१॥ 'मित्रायां' दृष्टौ 'दर्शनं मन्दं'-स्वल्पो, बोधः, तृणाग्निकणोद्योतेन सदृशः । 'यम'-अहिंसादिलक्षणः 'इच्छादिकस्तथा' यथोक्तं - 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' [पा. यो. सू. 2-30]। एते च 'इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा' इति वक्ष्यति । 'अखेदो देवकार्यादौ' आदिशब्दाद्गुरुकार्यादिपरिग्रहः, तथातथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्र अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्चामत्सरश्च अपरत्र त्वदेवकार्यादौ, तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावेऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य 'कर्मण्याशयः । अतोऽस्यापरत्र न चिन्ता, तद्भावेऽपि करुणांशबीजस्यैवेषत्स्फुरणमिति ॥२१॥ अस्यां दृष्टौ व्यवस्थितो योगी • यत्साधयति तदभिधित्सयाह
करोति योगबीजानामुपादानमिह स्थितः ।
अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥२२॥ १. प्रतिपाताभावेऽपि उपरासु चतसृषु देवजन्मनि चरणविघातः स्यादित्याह -पा. टि । २. णकप्रवृत्त - ता. । ३. कर्मण्योऽस्या - ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org