________________
योगदृष्टिसमुच्चय-सूत्र : १७-१८-१९
७७
त्तिव्याघातात्' इति तथाश्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन किमित्याह 'सत्प्रवृत्तिपदावहः' इति । शास्त्राऽविरुद्धप्रवृत्तिपदावहोऽवेद्यसंवेद्यपदपरित्यागेन वेद्यसंवेद्यपदप्रापक इत्यर्थः । वेद्यसंवेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्य, एवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वेन न कश्चिद्दोष इति ॥१७॥ एषा च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाह
इयं चावरणापायभेदादष्टविधा स्मृता ।।
सामान्येन विशेषास्तु, भूयांसः सूक्ष्मभेदतः ॥१८॥ 'इयं च' अनन्तरोदितलक्षणा दृष्टिः । 'आवरणापायभेदाद् आवरणापगमभेदेन परिस्थूरनीत्या 'अष्टविधा स्मृता' पूर्वाचार्यै: 'सामान्येन'सूक्ष्मेक्षिकामनादृत्य । 'विशेषास्तु'-भेदाः पुनः सदृष्टे यांसोऽतिबहवः 'सूक्ष्मभेदतो'ऽनन्तभेदत्वाद्दर्शनादीनां मिथ:षट्स्थानपतितत्वाभिधानादिति ॥१८॥
इह च दृष्टिसमुच्चये . प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । .. सापाया अपि चैतास्ताः प्रतिपातेन नेतराः ॥१९॥
'प्रतिपातयुता'-भ्रंशोपेताः । 'आद्याश्चतस्रो'-दृष्टयो मित्रादिरूपाः 'एता अपि च' प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव, ताभ्यस्तदुत्तरभावादिति । 'नोत्तरास्तथा-' न स्थिराद्यास्तेन प्रकारेण प्रतिपातयुताः । यत एवं 'सापाया अपि-' दुर्गतिहेतुत्वेन, "एतास्ता-' एता एव । कथमित्याह 'प्रतिपातेन' भ्रंशेन, 'नेतरा-' -न स्थिराद्याः सापाया इति । आह-कथं श्रेणिकादीनामेतदप्रतिपातादपायः ? उच्यते-एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु संभवमात्रमधिकृत्य 'सापाया अपि', तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सदृष्टय घाते सत्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन, तदाशयस्य कायदुःखभावेऽपि १. नैतास्तत् ।एताः - ता. । २. प्रतिपातेन नेतरा इति । अप्रतिपातेन - ता. । ३. पाते
-
ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org