________________
• ७६
योगदृष्टिसमुच्चय-सूत्र : १५-१६-१७ . नलादिकल्पास्त्वभव्याः, संवेगमाधुर्यशून्यत्वात् । अनेन 'सर्वथाऽपरिणामिक्षणिकात्मवादे दृष्टिभेदाभावमाह तत्तथाभवनानुपपत्तेरिति ॥१५॥ इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाभिधा
तुमाह
यमादियोगयुक्तानां, खेदादिपरिहारतः ।
अद्वेषादिगुणस्थानं, क्रमेणैषा सतां मता ॥१६॥ यमादियोगयुक्तानामिति । इह यमादयो योगाङ्गत्वाद्योगा उच्यन्ते। यथोक्तं "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि" [पात० योग० २-२१] । तदेवं यमादियोगप्रत्यनीकाशयपरिहारेण । एतेऽपि चाष्टावेव तथा-"खेदोद्वेगक्षेपोत्थान प्रान्त्यन्यमुद्रुगासङ्गैः ! युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ॥१॥ [षोडशक१४-३]" तदेतत्परिहारेणापि क्रमेणैषाष्टधेति । एवमद्वेषादिगुणस्थानमिति यत एतान्यप्यष्टावेव । यथोक्तम्-“अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः 'प्रवृत्तिरष्टांगिकी तत्त्वे ॥१॥" [षोडशक १६-१४] एवं क्रमेणैषा सदृष्टिः 'सतां'-मुनीनां भगवत्पतञ्जलि-भदन्तभास्करबन्धुभगवत्तादीनां योगिनामित्यर्थः 'मता'-इष्टा । एतत्साकल्यं च प्रतिदृष्टि दर्शयिष्यामः ॥१६॥ साम्प्रतं दृष्टिशब्दार्थाभिधानायाह
सच्छुद्धासङ्गतो बोधो, दृष्टिरित्यभिधीयते ।
असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः ॥१७॥ 'सच्छ्रद्धासङ्गतो बोधः' इत्यनेनासच्छ्रद्धाव्यवच्छेदमाह, असच्छ्रद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासद्हात्मिका गृह्यते, तद्वैकल्यात् 'सच्छ्रद्धासङ्गतः' इति एवंभूतो बोधोऽवगमः, किमित्याह 'दृष्टिरित्यभिधीयते । दर्शनं दृष्टिरिति कृत्वा निष्प्रत्यपायतया । फलत एतामेवाह 'असत्प्रवृ
१. एकान्तनित्यानित्यात्मकादिमते इत्यर्थः । २. अथ योगदृष्टिः कतमा केषां स्यादित्याह - पा. टि । ३. यमादियोगयुक्तानां क्रमेणैषाऽष्टधा प्रत्येकमङ्गयोगे दृष्टिभेदत्वात् । एवं खेदादिपरिहारतः=यमादियोगप्रत्य...ता. । ४. भ्रान्तान्य - ता. । ५. प्रवृत्तिरष्टाङ्गिका - भ. पा. मो. ता. । ६. दवधूतादी - ता. । ७. दृष्टिरत्राभि - मो. ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org