________________
जैनन्यायपञ्चाशती
'द्रव्यगुणकर्मसामान्यादिसप्त पदार्थान् मनुते । तत्र सामान्यविशेषौ इमौ द्वौ पदार्थावपि स्तः । सामान्यस्य लक्षणं तत्रैवं कृतं वर्तते - 'नित्यमेकमनेकानुगतं सामान्यम्'।' अस्य तात्पर्यमस्ति यन्नित्यमेकं तथा अनेकेषु समवायसम्बन्धेन तिष्ठेत् तत् सामान्यमुच्यते । यथा 'अयं गौः' इत्युक्ते सत्यत्र गोत्वविशिष्टानां सर्वेषां गवां बोधो जायते । तत्र यद् गोत्वं तन्नित्यमेकं तथा सर्वेषु गोषु समवायसम्बन्धेन तिष्ठति । समवायस्तु नित्यसम्बन्धस्य वाचकः । अत एव गोत्वं गवा सह सदैव तिष्ठति । इदं वस्तुनः सामान्यं रूपम् । यदा 'पीतो गौ: ' 'कृष्णो गौः' इत्युच्यते तदा तद्विशेषेण युक्तो गोशब्दो गोविशेषस्य बोधको भवति । अत्र गोः विशेषता प्रकटीभवति ।
80
-
सामान्यमिदं द्विविधं भवति – परमपरञ्च । परसामान्यं तदुच्यते यदधिकदेशवृत्ति भवेत् । यथा 'वृक्षा:' इत्यादि । यन्न्यूनदेशे तिष्ठेत् तदपरसामान्यञ्च। यथा - आम्रो - निम्बकदम्बादयो विशेषवृक्षबोधकाः सन्ति । इमौ द्वौ सामान्यविशेषौ भिन्नौ भिन्नौ पदार्थौ स्तः । विशेषस्य परिभाषा वैशेषिकदर्शने एवं कृता यत् नित्यद्रव्यवृत्तयो विशेषास्तु अनन्ता एव । तात्पर्यमिदं यन्नित्यद्रव्यपरमाणुषु तिष्ठन् तेषां ( परमाणूनां ) परस्परं व्यावर्तको भवति स एव विशेषः । यदा पदार्थानां परस्परंभिन्नतां साधयता जनेन परमाणुं यावत् गम्यते तदा परमाणूनां निरवयवत्वात् इदमेवोच्यते यत् अयं परमाणुः तस्मात् परमाणोः भिद्यते विशेषत्वात् । अनया रीत्या विशेष एव परमाणूनां भेदको भवति । इयमेव विशेषस्य विशेषता या परमाणून् परस्परं विभनक्ति ।
जैनदर्शनानुसारं सामान्यविशेषौ न स्वतन्त्रपदार्थों किन्तु इमौ द्वौ वस्तुनः एव गुणौ । अत एव सवेषु पदार्थेषु अनयोर्विद्यमानता दृष्टिगोचरी भवति ।
१. द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायास्तथा भावाः, पदार्थाः सप्त कीर्तिताः ॥
(न्याय सिद्धान्तमुक्तावली )
२. तर्कसंग्रहः, पृ. ७७ । ३. तर्कसंग्रहः
: पृ. ६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org