________________
18
जैनन्यायपञ्चाशती निमित्तकारणञ्च।येन साधनेन घटः निर्मीयते तद् तस्योपादानकारण, कलाल. तथा निर्माणे च प्रयुज्यमाना अन्या सामग्री निमित्तकारणमिति स्थिति। प्रस्तुतप्रकरणे घटः कार्यं पृथ्वी च तस्योपादानकारणम्। प्रत्या कार्यमुपादानकारणसंश्लिष्टं भवति। अनेन नियमेन घटात्मकं कार्यं पृथिव्याःमृत्तिकायाः संश्लिष्टमस्ति। तस्मादसौ पृथिव्या अभिन्न एव।
पूर्वं मृत्तिका घटरूपे परिणता नासीत्, सम्प्रति तु घटरूपे परिणता। पृथ्वी-मृत्तिका तु पूर्वमप्यासीत्, किन्तु न निर्मितो घटस्तदानीम्।अस्माद् इदं विज्ञायते यत् घटः पृथिव्याः पृथग् भिन्न एव। यदि घटः पृथिव्या अभिन्नः स्यात् तदा पृथ्वी तु पूर्वमप्यासीदिति तदा घटः कथं नोत्पन्नः? एतेन अवबुध्यते इदं यत् पृथ्वी भिन्ना घटश्च भिन्नः। वस्तुतस्तु सत्यपि उपादानकारणे यावत् कुलालस्य व्यापारो निर्माणे च प्रयुज्यमानानि उपकरणानि न स्युः तावत् घटः कथं समुत्पद्येत? उपादानस्य सत्तामात्रेणैव कार्यस्य निष्पत्ति व भवति। कार्यकारणयोर्भिन्नाऽभिन्नत्वं तु उपयोगमादायैव वक्तुं युज्यते। घटस्योपयोगो जलाद्याहरणेनैव पृथिव्यास्तु आधारप्रदानेनैव भवति। मृत्पिण्डात् निर्मितो घटः इति घटः पृथिव्या अभिन्नः, पूर्व घटो नासीत् साम्प्रतं घटोऽस्तीति घटः पृथिव्या भिन्नः इति विवेचनेन घटस्य भिन्नाभिन्नत्वं सिद्धयति। ___अत्रेदमपि वक्तुं शक्यते यत् घटो धौव्यरूपेण पृथिव्या अभिन्न पर्यायरूपेण भिन्नोऽप्यऽस्ति।
कोई भी कार्य कारण के बिना नहीं होता। यहां घट कार्य है और मृत्तिका कारण है। कारण दो प्रकार का होता है-उपादानकारण और निमित्तकारण। जिस साधन से घट का निर्माण किया जाए वह उसका उपादानकारण है। कुम्भकार तथा निर्माण में प्रयुक्त होने वाली अन्य सामग्री निमित्तकारण है। प्रस्तुत प्रकरण में घट कार्य है और पृथ्वी उसका उपादान कारण है। प्रत्येक कार्य उपादानकारण से संश्लिष्ट-संयुक्त होता है। इस नियम से घटस्वरूप कार्य पृथ्वी-मिट्टी से संयुक्त है, इसलिए घट पृथ्वी से अभिन्न ही है।
पूर्व में मृत्तिका घटरूप में परिणत नहीं थी, अब वह घटरूप में परिणत हो गई। पृथ्वी-मिट्टी तो पहले भी थी किन्तु तब घड़ा निर्मित नहीं हुआ था। इससे यह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org