________________
76
न्यायप्रकाशिका
जीवोsस्तित्ववानस्ति इति कथनं लोकप्रसिद्धम् । अस्तित्ववन्ति तु अन्यानि द्रव्याण्यपि सन्ति । किन्तु तानि तु केवलानि द्रव्याण्येव कथ्यन्ते । यथा - पञ्चास्तिकायेषु धर्माधर्माकाशपुद्गलाः अस्तित्ववन्तोऽपि द्रव्याण्येव न तु जीवपदवाच्यानि । जीवस्तु द्रव्यं सन्नपि अस्तित्ववान् चेतनस्वरूपः । अस्तित्ववन्त्यपि सर्वद्रव्याणि जीवपदेन वक्तुं न शक्यन्ते । उदाहरणद्वारा सिद्धान्तमिमं द्रढयति - ' धव' इति नाम्ना वृक्षविशेषोऽस्ति । स चास्ति वनस्पतिः ' । वनस्पतिस्तु किंशुकोऽप्यस्ति, किन्तु वनस्पतिमात्रेण धवः किंशुकश्चेति द्वावपि न समौ । किञ्च द्वयोरपि गुणधर्मी उपयोगिता च पृथक् पृथगस्ति। तस्मात् उभयोः पार्थक्यम् । धवः किंशुको भवितुं नार्हति, किंशुकश्च धवोऽपि भवितुं नार्हति। उभयोः वनस्पतिऽत्वेऽपि गुणधर्मभेदादुत्भौभिन्नौ । अस्य निष्कर्षोऽयं यत् अस्तित्वमात्रेण सर्वाणि द्रव्याणि समानानि भवितुं शक्यानि, परं तानि जीवपदेन व्यवहर्तुं न शक्नुवन्ति ।
प्रसंगवशात् एषां द्रव्याणां भिन्नाभिन्नत्वं प्रतिपादयति । तच्चेत्थम्अस्तित्वदृष्ट्या जीवस्य अन्यस्य वा कस्यचित् द्रव्यस्य स्यान्नाम अभिन्नत्वं किन्तु प्रत्येकं लक्षणं भिन्नं भिन्नमिति प्रत्येकं द्रव्यं भिन्नमेव वर्तते । यथा जीवस्य लक्षणं वर्तते चैतन्यम्। धर्मास्तिकायस्य लक्षणमस्ति गतिसहायत्वम् । तात्पर्यमिदं यल्लक्षणभेदात् भिन्नैः द्रव्यैः सह अस्तित्वस्य समानतां दृष्ट्वा न भवति जीवस्य धर्मास्तिकायत्वं धर्मास्तिकायस्य वा जीवत्वम् । तस्मात् द्रव्याणां परस्परं भिन्नाऽभिन्नत्वं सिद्धमेव ।
जैनन्यायपञ्चाशती
जीव अस्तित्ववान् है, यह कथन लोकप्रसिद्ध है। अस्तित्ववान् तो अन्य द्रव्य भी होते हैं । किन्तु वे तो केवल द्रव्य ही कहे जाते हैं, जैसे- पञ्चास्तिकाय में धर्म, अधर्म, आकाश और पुद्गल - ये चारों अस्तित्ववान् होते हुए भी द्रव्य ही होते हैं, जीव नहीं होते। जीव द्रव्य होते हुए भी अस्तित्वान् है, चेतन - स्वरूप है। अस्तित्ववान् होते हुए भी सभी द्रव्य जीव नहीं कहे जा सकते।
१. ‘ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुष्पैर्विना तैः फलम्' ।
(राजनिघ., आनूवादिवर्ग:, श्लो. २९ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org