________________
74
___ जैनन्यायपञ्चाशती प्रस्तुत कारिका में उत्पाद-व्यय और ध्रौव्य की भिन्नता और अभिन्नता कैसे है? उसका प्रतिपादन कर रहे हैं
विभिन्नलक्षणत्वेन भिन्नानि स्युरमून्यपि। भिन्नताऽभिन्नता चैवममीषां हि प्रसिद्ध्यति॥३४॥ उत्पाद, व्यय और ध्रौव्य के लक्षण भिन्न हैं, इसलिए ये भिन्न हैं। इस प्रकार इनकी भिन्नता और अभिन्नता-दोनों सिद्ध होती हैं। न्यायप्रकाशिका
उत्पादव्ययधौव्याणाम् एतत् त्रयं प्रत्येकं लक्षणं पृथक् पृथगस्ति। एतत् त्रयं निरपेक्षसत्यं तथा सापेक्षसत्यञ्चाप्यस्ति। लक्षणापेक्षया इमानि सापेक्ष सत्यानि तथा एकस्मिन्नेवाधिकरणे स्थित्या च निरपेक्षसत्यानि। लक्षणभेदेनैषां त्रयाणां उत्पाद-व्यय-ध्रौव्याणां भिन्नत्वम्। लक्षणं कस्यापि वस्तुनः तदीयं स्वरूपप्रतिपादकं भवति। यथा-पृथिव्या लक्षणमस्ति गन्धवत्वम्। इदं गन्धवत्वं पृथिव्या इतरभिन्नत्वं साधयति । पृथिवी इतरभिन्ना गन्धवत्वात्' इति वचनात् अत्र गन्धवत्वेन हेतुना पृथिव्या इतरभिन्नत्वं साधितमस्ति। अनेनैव प्रकारेण उत्पाद-व्यय-ध्रौव्यधर्माणां प्रत्येकं लक्षणं भिन्न भिन्नमवगन्तव्यम्। तत्रोत्पादो नाम अविद्यमानपदार्थस्य समुत्पत्तिः। अस्येदं लक्षणं व्ययलक्षणाद् भिन्नमस्ति। व्ययोऽस्ति विद्यमानस्य विनाशो रूपान्तरणं वा। अस्य लक्षणमिदम् उत्पादलक्षणाद् भिन्नम्। धौव्यमस्ति शाश्वतरूपेण विद्यमानता। अस्येदं लक्षणमिदम् उत्पादव्ययलक्षणाभ्यां भिन्नम्। उत्पादव्ययौ द्रव्यस्य पर्यायौ स्तः धौव्यं च विशुद्धसत्तात्मकरूपम्। अनेन प्रकारेण लक्षणभेदात् एषां त्रयाणां भिन्नत्वं सिद्धयति।
एषामभिन्नता अपि दृश्यते। सा च इत्थम्। उत्पादव्ययधौव्याणि एकस्मिन्नधिकरणे सहैव तिष्ठन्तीति समानाधिकरणवृत्तित्वात् सन्तीमानि अभिन्नानि। एतेन विवेचन अमीषां त्रयाणां भिन्नता अभिन्नता च सिद्धयति।
उत्पाद-व्यय और ध्रौव्य इन तीनों का प्रत्येक का लक्षण पृथक्-पृथक् है। ये तीनों निरपेक्षसत्य और सापेक्षसत्य भी हैं। लक्षण की अपेक्षा से ये तीनों सापेक्षसत्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org