________________
गुणकर्मादिसद्भावादस्तीति प्रतिभासतः ।
प्रतियोग्यस्मृतेश्चैव भावरूपं ध्रुवं तमः।। पञ्च सन्ति ज्ञानेन्द्रियाणि शब्द-रूप-गन्ध-रस-स्पर्श-ग्राहकाणि प्रसिद्धानि। तत्र चक्षुर्मनश्च व्यतिरिच्य अन्यानि वस्तु प्राप्य प्रकाशकारीणि सन्ति । चक्षुर्मनश्चेत्येतद् द्वयं तु अप्राप्यकारिइन्द्रियमस्ति । अपरे कतिपये दार्शनिका अनयोरपि चक्षुर्मनसोः प्राप्यकारित्वं वदन्ति। तन्मतमपि निराकृतमत्र। ___. अनेन प्रकारेण विभिन्नमतमतान्तरं प्रस्तुत्य निराकृत्य च आचार्येण कियदुपकृतमिति विदन्ति बुधवराः। पुस्तकमिदं दर्शनशास्त्रस्य वर्तते। कदा प्रभृति दर्शनशास्त्रं प्रारब्धमिति वक्तुं न शक्यते। अनादिकालिकोऽयं दार्शनिको विकासः। दर्शनस्य बीजभूमिरस्ति जिज्ञासा न तु काचिद् विभीषिका ससंभ्रमा स्थितिर्वा । वैचित्र्योपेतं जगदिदं दर्श दर्श चिन्तनपरायणस्य पुरुषस्य मनसि भवतीयं जिज्ञासा यत् कस्मादिदम्? केनेदं कृतम्? अथवा अनादिकालिकोऽयं प्रवाहो वर्तते गतिमान् जगद्पेण? नात्र चित्रं यद् एतादृश्यो विविधा जिज्ञासाः समुपलभ्यन्ते वेदेषु उपनिषत्सु जैनागमेषु च। भगवता महावीरेण साकं गौतमस्य सम्वादेष्वपि निहितानि दर्शनशास्त्रस्य बीजानि। महर्षासस्य ब्रह्मसूत्राण्यपि सन्ति दर्शनशास्त्रस्य स्रोतांसि । भारतस्य कृते गौरवास्पदमिदं यत देशेऽत्र गभीरचिन्तनाभिव्यञ्जकदर्शनशास्त्राणि राजन्ते।
अत एव श्रूयते यत् दर्शनशास्त्राणि भारतस्यामूल्यो निधिरिति। वैचित्र्योपेते जगत्यस्मिन् कः खलु सारः? किञ्चात्र हेयं, किञ्चोपादेयमित्यादयो विषयाः समाधीयन्ते केवलं दर्शनशास्त्रेणैव। अस्मिन् देशे दिव्यज्ञानात्मकपयःपूता सरससलिला मन्दाकिनी अनवरतं प्रवहन्ती प्रस्तौति सुमधुरं पाथेयं तत्त्वजिज्ञासूनां कृते। अस्मिन् एवोपक्रमे समागतं पुस्तकं जैनन्यायपञ्चाशती' इति पुस्तकम्। पुस्तकमिदं लिखितम् आचार्य महाप्रज्ञेनऽल्पे वयसि। अनेन ज्ञातुं शक्यते महाप्रज्ञस्य विद्यावैभवं प्रतिभापाटवञ्च । निखिल-शास्त्रावगाहिनी तदीया मेधा किमप्यपूर्वमेव रचयति, भावयति च अपूर्वान् भव्यान् भावान् कृते विद्यावताम्।
(vi)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org