________________
वक्तुं शक्यं तथापि सन्निकर्षजन्ये ज्ञाने यदर्थप्रकाशकत्वं वर्तते तस्य तदीयकारणीभूते सन्निकर्षे समारोप्य सन्निकर्षस्यापि औपचारिकं प्रमाणत्वं वक्तुं शक्यमेवास्ति ।
अस्मिन्नेव प्रसङ्गे बौद्धाभिमतं तदुत्पत्तितदाकारतामतमपि निराकृतमाचार्येण । अत्रायं बौद्धाभिप्रायः--ज्ञानं वस्तुना उत्पद्यते । वस्तुनः समुत्पन्नं ज्ञानं वस्त्वाकारतामुपैति । वस्त्वाकारतामुपेतमेव ज्ञानं वस्तु प्रकाशयति । यद् ज्ञानं वस्त्वाकारतां नोपैति तत् तवस्तु न प्रकाशयति । अयमेव तदुत्पत्तिस्तदाकारतासिद्धान्तः स्वीकृत: बौद्धकृतान्ते । एतन्निराकुर्वन् आचार्यः प्रत्यपादयत् यत् घटाद्यर्थान् प्रकाशयन् दीपो घटाकाराकारितां नोपैति चेत् ज्ञानमेव घटादीन् प्रकाशयत् कथं घटाद्याकारतामुपेयात् । तस्माद् नैतद् युक्तं तदुत्पत्तिस्तदाकारता मतम् ।
एतदतिरिक्तं तमोऽपि वर्तत एकं विवादस्थलम् । तमो द्रव्यमस्ति न वेति विचिकित्सा। वदन्ति तत्र केचन - गुणक्रियाश्रयो हि द्रव्यम् । एतादृशं द्रव्यत्वं तु तमसि वर्तते एव । श्रूयते चात्र 'नीलं तमश्चलतीति' ' । तत्र नीलपदेन तमसि गुणवत्वं तथा चलनक्रियया तत्र क्रियाश्रयत्वं स्पष्टमेवं । एवञ्च गुणक्रियाश्रयो द्रव्यमिति परिभाषितं द्रव्यत्वं तमसि स्पष्टमेव वर्तते । यदि चोच्यते द्रव्यत्वेन प्रसिद्धेषु पृथिव्यादिनवद्रव्येष्वेव तमसोऽन्तर्भावे सिद्धे कथं स्वीक्रियतां तमो द्रव्यमिति ? किन्तु कथनमिदं न युक्तं, यतो हि तमसो रूपवत्वात् अरुपि आकाशादिषु पञ्चसु नान्तर्भावः । निर्गन्धस्य तमसो गन्धवत्यां पृथिव्यामपि नान्तर्भावः । जले शीतस्पर्शवत्वात् तेजसि च उष्णस्पर्शवत्वात् तत्रापि नान्तर्भावः। तस्मात् तमो द्रव्यमेवेति कथनं निराक्रियते तार्किकैः । अत्रेदं तदीयं कथनम्– यत् तमसि नीलरूपप्रतीतिस्तु भ्रान्तिरेव । तत्र या चलनक्रिया सा तु दीपापसारणप्रयुक्ता औपाधिकी एव ।
1
एतद्विपरीतं वदन्ति बुंधा यत् तमसि गुणः कर्म च दृश्यत एव तमोऽस्ति इत्येवंरूपेण अस्तिना भवति प्रतीति स्तमसः । असतः सत्वेन प्रतीतिर्नैव भवति । तमसस्तु प्रतीतिर्भवति । अभावपदार्थे न कोऽपि गुणो न च कापि क्रिया । तस्मात् गुणक्रियाश्रयत्वात् तमसोऽस्तित्वं वर्तत एव । तदुक्तम्
१. तर्कसंग्रहन्यायबोधिनी - पृ. २ ।
२. मानमेयोदय पृ. १५२ ।
Jain Education International
(v)
For Personal & Private Use Only
www.jainelibrary.org