________________
उमास्वातेरनुसारं तु 'प्रमाण नयैरधिगमः । सर्वांशग्राहिणा प्रमाणेन तथा अंशग्राहिणा नयेन च पदार्थाधिगम एव न्यायः। अत्राधिगमः परीक्षणस्वरूप एव। . आचार्यमहाप्रज्ञानुसारं तु वस्तुनः स्वरूपं स्वतः सिद्धमस्ति, कोऽपि तज्जानीयान्न वा जानीयात्। ज्ञाता यदा जानाति तदा तद् प्रमेयं भवति। येन ज्ञानेन ज्ञायते पदार्थस्तद् ज्ञानं यदि सम्यगस्ति तदा तद् प्रमाणमित्युच्यते। अनेन प्रकारेण प्रमाणनयैराधिगमो न्यायः। अनेन प्रकारेण वक्तुं शक्यते यत् मानवजीवने न्यायशास्त्रस्य महती वर्तते उपयोगिता। न्यायशास्त्रस्य प्रवर्तको गौतमो मुनिः निःश्रेयसमेवास्य शास्त्रस्य प्रयोजनमुदघोषयत् । तदुक्तम्- ... दुःखजन्मप्रवृत्तिदोषमिथ्या-ज्ञानानामन्यतरापाये तदनन्तराभावात् अपवर्गः ।
अस्यायं भाव:- तत्त्वसाक्षात्कारात् मिथ्याज्ञानस्य निवृत्तिर्भवति मिथ्याज्ञाननिवृत्त्या च रागद्वेषमोहानां दोषाणां निवृत्तिर्भवति, दोषाणां निवृत्त्या च धर्माधर्मरूपप्रवृत्तेर्निवृत्तिर्जायते, प्रवृत्तेर्निवृत्त्या च पुनर्जन्मनिवृत्तिः। तया च समस्तदुःखानामात्यन्तिक-निवृत्तिरूपमोक्षस्य प्राप्तिरिति तत्त्वविदः। उमास्वामिनाऽपि तत्त्वार्थसूत्रे एष खलु गरीयान् विषयः-'सम्यग्दर्शनज्ञानचरित्राणि मोक्षमार्गः' इति गभीरभावभरिते लघुसूत्रे सम्यक्तया निधापित इति वदन्ति तत्त्वज्ञाः। . ___पुस्तकेऽस्मिन् सर्वप्रथमं कृतो विचारः प्रमाणस्योपरि। प्रमेयो मानवानां कृते नान्तरीयो विषयः। तस्य सिद्धिर्जप्तिर्वा प्रमाणाधीनेति विमृश्य कृतो विचारोऽत्र गरीयान्। प्रमाणं तु ज्ञानमेव न तु इन्द्रियाणि तत्सन्निकर्षो व्यापारादयो वा, तेषां जडत्वेन हेयोपादेयार्थमवबोद्धुमसमर्थत्वात्। ज्ञानस्य प्रमाणत्वे प्रमितिः प्रमाणमित्येव प्रमाणशब्दस्य साधीयसी व्युत्पत्तिर्न तु प्रमीयते ज्ञायते येन तत् ज्ञानसाधनं प्रमाणम् एतादृशप्रमाणत्वस्य सन्निकर्षादावतिव्याप्तेः। वस्तुतस्तु आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षमिति न्यायशास्त्ररीत्या सन्निकर्षस्यैव प्रमाणत्वं
१. तत्त्वार्थसूत्रम् १/६। २. जैनन्याय का विकास पृ.७। ३. न्यायदर्शनम् १/१/२।
(iv)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org