________________
पुरोवाक्
आचार्यमहाप्रज्ञप्रणीता जैनन्यायपञ्चाशतीति नाम्ना विश्रुता एका विलक्षणा कृतिः। सरलसंस्कृते श्लोकबद्धेयं कृतिः जैनदर्शनस्य मौलिकं तत्त्वं बोधयितुं क्षमेति नास्त्यत्र मनागपि संशयः। पुस्तकमिदं न्यायविद्यायाः। न्यायविद्या च भारतस्य प्राचीनतमा विद्या। विद्येयं सकलशास्त्रप्रवेशद्वारमिति वदन्ति बुधवराः। स्वकीयज्ञानगरिम्णाख्यापयतीयं भारतम्, विशोधयति मानसम्, वर्धयति तार्किकशक्तिं, किं बहुना साधयति निःश्रेयसं तत्त्वज्ञानद्वारेति अपूर्वः खलु महिमा न्यायविद्यायाः। जैनदर्शने प्रवेशं कामयमानानां कृते कियदुपयोगिनीयं, विद्येति स्वसंवेद्योऽर्थः । इयं खलु न्यायविद्या, न्यायशास्त्रं तथा आन्वीक्षिकीत्यादि, विभिन्नैः शब्दैरभिलप्यते। आन्वीक्षिकी शब्दार्थश्च'-प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षणमन्वीक्षा तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रम्। न्यायविद्या सर्वशास्त्रोपकारिका। उक्तञ्च'
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। : आश्नयः सर्वधर्माणां सेयमान्वीक्षिकी मता।। आन्वीक्षिकी सम्पूर्णविद्यानां प्रकाशिका सम्पूर्णकर्मणां साधिका तथा समस्तधर्माणामाश्रयीभूतास्ति।
देशोऽयमात्मचिन्तनप्रधानः। चिन्तनस्य सरससलिला मन्दाकिनी अत्र प्रवहन्ती वर्तते अनादिकालत एव। फलस्वरूपं जातोऽत्र महान् खलु विकासो दर्शनशास्त्रस्य। अत एव श्रूयन्तेऽत्र बहूनि दर्शनानि । तेष्वन्यतममस्ति न्यायदर्शनम्। तत्र कोऽयं न्यायः? का च तदीया परिभाषेति जिज्ञासायां न्यायभाष्यकारो वात्स्यायनो ब्रूते-- 'प्रमाणैरर्थपरीक्षणं न्याय:'। तात्पर्यमिदं यत् प्रमाणद्वारा अर्थस्य परीक्षणमेव न्यायः।
१,२. न्यायभाष्यम्: सूत्र-१। ३. न्यायभाष्यम् १/१/१।
(iii)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org