SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पुस्तकस्यास्य यदि व्याख्या कृता स्यात् तदा पुस्तकमिदं स्यादधिकजनोपयोगीति मनसि निधाय निवेदितो महाप्रज्ञमहोदयः जिज्ञासा-प्रवणैर्जिज्ञासुभिः। इतः पूर्वं कृता मया व्याख्या संस्कृते भिक्षुन्यायकर्णिका' नामकस्य पुस्तकस्य। पुस्तकमिदं प्रकाशितं जैनविश्वभारतीविश्वविद्यालयेन । समादृतं चैतद् विद्वज्जनसन्दोहेन। एतस्मै प्रशस्तकर्मणे पुरस्कारमाप्तुं यदाहं गतवान् उदयपुरं तदा आचार्यप्रवरः समाहूय मामवोचत् यत् अस्यापि 'जैनन्यायपञ्चाशती' नामकस्य पुस्तकस्यापि तथैव व्याख्या विधीयताम्। आचार्यवर्यस्य वचोऽनुसारं प्रारब्धं मया व्याख्याकार्यम्। कर्मण्यस्मिन् मुनि राजेन्द्रकुमारस्याविस्मरणीयः सहयोगः सम्प्राप्तः। सरलचेतोभिरेभिर्महानुभावैः संस्कृतस्य हिन्दी: विधाय टंकणसंशुद्धिञ्च विधाय यदुपकृतं तदर्थमहमेषां भृशमाभारमावहामि। अवसरेऽस्मिन् मम शिष्यायाः सुश्रीवसुधाया अपि सहयोगो नास्ति विस्मरणीयः। मुनिवराणां सन्निधौ यत्र कुत्रापि मया गन्तव्यं भवति तत्र सर्वत्र छायेव मया सह गत्वा पुस्तकानामादानप्रदाने, पुस्तकेषु शब्दान्वेषणे च यत् साहाय्यं विहितमनया, तदर्थमहं वितरामि अस्यै आशीराशीन्। पुस्तकस्यास्य प्रकाशने समापतितं विघ्नबाहुल्यम्। तांश्च सर्वान् विघ्नान् समतिक्रम्य नाहं विरतः पुस्तकप्रकाशनात्। पुस्तकस्यास्य प्रकाशने जनविश्वभारतीविश्वविद्यालयस्य पूर्व-कुलपतेः डॉ. समणीमंगलप्रज्ञायाः समुपलब्धोऽपूर्वः सहयोगः। एतदर्थमहं तदर्थंभृशमाभारं ज्ञापयामि। विश्वविद्यालयस्य वर्तमानकुलपतिरपि औदार्यसौजन्यादिगुणगणसमन्विता महत्तोत्साहेन पुस्तकमिदं प्रकाश्य कृतो लाभान्वितो बुधजनसन्दोह इति अभिनन्दामीमाम्। अत्रावसरे मुख्यनियोजिका साध्वीविश्रुतविभा अपि वर्ततेऽभिनन्दनीया यया पुस्तकस्थश्लोकानां हिन्द्यां कृतोऽर्थः। जैनन्यायपञ्चाशती' नामकं पुस्तकमिदं लघुकलेवरकमपि गभीरभावभरितानि तथ्यानि निधापयति स्वात्मनि । पुस्तकेऽस्मिन् सन्ति पञ्चाशत् श्लोकाः। ____ श्लोकानां व्याख्या संस्कृते तथा हिन्द्यां च कृता मया। हिन्दीव्याख्यामाध्यमेन संस्कृतव्याख्यामवबोद्धं क्षमः कोऽपि जनः। पुस्तके समागतानां कठिनशब्दानामर्थोऽपि परिशिष्टे लिखितो वर्तते। पुस्तकस्य प्रकाशने जातो महान् विलम्ब इति जातो मे .. . (vii) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004165
Book TitleJain Nyaya Panchashati
Original Sutra AuthorN/A
AuthorVishwanath Mishra, Rajendramuni
PublisherJain Vishva Bharati
Publication Year2012
Total Pages130
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy