SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ खेदो महान्। अत्र तु ममास्वास्थ्यमेव कारणमिति मर्षणीयोऽयं जनः। जैनदर्शनस्य हार्दमवबोद्धं पुस्तकमिदं सरलो राजमार्गः। स्वकीयविशेषतया तोषयिष्यतीदं बुधानिति मे विश्वासः। -विश्वनाथमिश्रः जैनविश्वभारती, लाडनूं ९/९/१९११ वाग्वैभवम् अपूर्वः खलु महिमा परावाचः। जगद्व्यवहारप्रयोजिका इयमेव । यदि नास्थास्यत् वागात्मिका शक्तिरिह संसारे तदामूकाः किं कर्त्तव्य विमूढाश्चलोका कथङ्कारं परस्परं व्यवाहारिष्यन्? विलक्षणशक्ति सम्पन्नेयम् वर्तते अघटितघटना पठीयसी। दिवा प्रकाशते सूर्यः। दीप्यते चन्द्रः रात्रौ किन्तु यदा न सूर्यप्रकाशो न वा चान्द्रमसी ज्योत्स्ना वर्षतौ समाच्छन्नं नभोमण्डलं वलाहकैस्तस्मिन् समये घोरेऽन्धतमसि पथिकश्चैकः चतुष्पथे तिष्ठन् अनवाप्तमार्गः खिन्नमना शृणोतीदं वाक्यमित आयाहि इत आयाहीति। श्रुते शब्दे तदीयं प्रकाशमुपेत्यासौ स्वगन्तव्य-मुपैतीति वर्ततेऽनिर्वचनीया शक्तिः शब्दे। सा चेयं वाक् परा-पश्यन्तीमध्यमा वैखरीतिभेदभिन्ना चतुर्धा। तत्र तावत् परावाक् अनादि निधना कृताधिवासा मूलचक्रे वक्तुः प्रयत्नप्रेरिता नाभि संस्थिता केवलं योगिगम्या पश्यन्तीपदवाच्या । ह्रदिस्था मध्यम पदवाच्या वैखरी सर्वजनप्रयुज्यमाना तर्पयति लोकान्। अत उच्यते आधारस्थामर्थशब्दैक रूपां पश्यन्तीं तां नाभिगांयोगिगम्याम्। हृन्मध्यस्थां मध्यमां तां वदन्ति व्यक्तां वाचं वैखरी तां नमामः।। (viii) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004165
Book TitleJain Nyaya Panchashati
Original Sutra AuthorN/A
AuthorVishwanath Mishra, Rajendramuni
PublisherJain Vishva Bharati
Publication Year2012
Total Pages130
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy