________________
सम्पादकीयम्
आहेतदर्शनमात्मवादिदर्शनं चकास्ति।आत्मसाक्षात्कारस्तस्य प्रमुखं ध्येयमस्ति। यथा यथा समयो व्यतीतः नैकेषां दर्शनानां प्रादुर्भावः संजातः। भारतीयपरम्परायां मुख्यतया षड्दर्शनानि प्रचलितानि आसन्। तैः सार्धम् अनेके वादा मतवादाश्चापि संयुक्ताः समजनिषत। आध्यात्मिकदर्शनस्य स्थानं बुद्धिवादे समाहितम्। यत्र बौद्धिकतायाः प्राधान्यं वर्तते तत्रान्तर्दर्शनमुपसर्जनीभवति। तत्रोत्पद्यन्ते वादा विवादास्तर्का वितर्काश्च । तेषां शमनार्थं निवारणार्थं वा न्यायस्य महत्यावश्यकता भवति। यावदेव कोऽपि तर्को वितर्को वा न्यायतुलां नाधिरोहति तावन्न तस्य प्रामाण्यं सिद्ध्यति।
'जैनन्यायपञ्चाशती' इतिनामा ग्रन्थोऽयं प्रणीतोऽस्ति पूज्यपादैराचार्यवर्यैः श्रीमहाप्रज्ञैः। अयं पञ्चाशत्श्लोकेषु निबद्धोऽस्ति। न्यायरसिकानां सिंहद्वारमस्ति न्यायमवबोधयितुं ग्रन्थोऽयम्। लघुकायं भजमानोऽप्ययं विपुलसामग्री प्रस्तोतुं शक्नोति। ग्रन्थकारैः ग्रन्थस्यास्य माध्यमेन गगर्यां सागरं भरितुं सायासः प्रयत्नोऽकारि।
आचार्यमहाप्रज्ञाः तेरापंथधर्मसंघस्य दशमाधिशास्तारः प्रवचनपटवः विलक्षणलेखकाः समासन्। शताधिकग्रन्थास्तेषां कुशललेखिन्या लिखिताः सन्ति। आचार्यवर्याणां ज्ञानं सर्वप्रकाशकं बहुश्रुतं विश्वविश्रुतं चासीत्। अनेकेषु ग्रन्थेषु प्रस्तुतग्रन्थोऽपि न्यायक्षेत्रे स्वोपयोगितां न्यायविदां च कृते पथप्रदर्शनं करिष्यति।
पूज्यपादानां महाप्रज्ञानां संकेतानुसारेण पंडितवर्यैः महाभागैः श्रीविश्वनाथमित्रैः ग्रन्थस्यास्योपरि न्यायप्रकाशिकानाम्नी व्याख्या व्यलेखि। अनेन कार्येण ग्रन्थस्य अत्यधिका मूल्यवत्ता-ऽवर्धिष्ट। पंडितवर्याः लब्धवर्णनिवहे व्याकरणविशारदाः, नैयायिकाः, वैदुष्यमंडिताः, दर्शनकोषव्याकरणादीनां रहस्यानां वेत्तारः सन्ति। सम्प्रति ते जैनविश्वभारतीसंस्थाने तदन्तर्गते विश्वविद्यालये अध्यापनरताश्चकासति। तेषां विनम्रो व्यवहारः सारल्यं अन्तःकरणं स्पृशति, अनवरतमध्यापनकौशलं च प्रतिभासते विद्यार्थिनां चेतसि।
गुरुवर्याणां महाप्रज्ञानां संकेतं शिरोधार्य अहमपि अस्मिन् कार्ये व्यापृतो जातः। सम्पादनकार्यं कृतम्। नाहं न्यायवेत्ता किन्तु न्यायरसिकोऽस्मि। मदीयाः श्रमशीकराः
(ix)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org